प्रतिकृतिः।

डो. निधीष् गोपी वर्येण प्रस्तुतं प्रतिकृतिः इति चलच्चित्रं हृद्यं कञ्चन दृश्यानुभवम् अस्मभ्यं ददाति। चलच्चित्रस्यास्य कथा, पटकथा, सम्भाषणं, गीतानि, निदेशनं च डो. निधीष् गोपीवर्येण समासादितम्। संस्कृतमजानानां साधारणानामपि अवगमनार्थं ललिता शैली अत्र स्वीकृता वर्तते। चलच्चित्रमिदं पश्यन्तः वयम् अजानाना एव होराद्वयं पर्यवस्यति। अस्माकं भाषणशैल्यां संस्कृते भाषमाणे एषा मलयालभाषा वेति सन्देहः प्रेक्षकाणां मनसि जायेत। कथा पटकथा सम्भाषणं गीतानि अभिनयश्च उत्कृष्टानि एव।

प्रसाद् मल्लिश्शेरीवर्यस्य रामकृष्णः, निपिन् उण्णी वर्यस्य आदित्यः, चिन्मयी रवि वर्यायाः उत्तरा अखिल् वेलायुधस्य दिनेशः इत्यादीनि कथापात्राणि मनसि निहितानि सन्ति। सुनिल् सुखदा वर्यस्य केशवन् नायर् इति पात्रमपि अत्युत्तमं भवति।

संस्कृतभाषोपासकानाम् एतादृशम् अधिकव्यययुक्तं प्रवर्तनं श्लाघनीयं प्रोत्साहनीयं च भवति खलु। तदस्माकं कर्तव्यमेव। दृश्यकाव्यमिदं जनाः परमतः पश्येयुः। तद्वारा संस्कृतम् अस्माकं सर्वेषां भाषा इति प्रतीतिः जनमनसि जायेत।
चलच्चित्रस्यास्य रङ्गे नेपथ्ये च प्रवर्तितेभ्यः सर्वेभ्यः शुभाशंसाः।

Leave a Reply

Your email address will not be published. Required fields are marked *