कोरोणिल् इति पतञ्जलेः कोविड् प्रत्यौषधगुलिका महाराष्ट्रे निरुद्धा।

मुम्बै- कोविड् रोगस्य  शमनौषधमिति प्रख्यापयन् रांदेवस्य पतञ्जलिसंस्थया आनीता कोरोणिल् इति गुलिका महाराष्ट्रे विक्रयनार्थम् अनुमतिं न दास्यतीति राज्यगृहमन्त्री अनिल् देश्मुख् अवदत्। विश्व-स्वास्थ्य-सङ्घः, भारतीयवैद्यकसंघश्च एतदौषधं नाङ्गीचक्रतुः। तादृशम् औषधं राज्ये विक्रेतुं नानुमीयते इति मन्त्री अवदत्।

     अस्य औषधस्य परीक्षणं भारतीयवैद्यकसङ्घः स्तगयत्। विश्व-स्वास्थ्य-सङघटनायाः प्रमाणपत्रं लब्धमिति वादः तया सङ्घटनया एव प्रहितः। केन्द्रीय स्वास्थ्यमन्त्री हर्षवर्धनः, यातायातमन्त्री नितिन् गड्गरी च औषधस्यास्य विणनसमारोहे भागं भजन्तावास्ताम्।

     आयुष् मन्त्रालयस्य अह्गीकारेणैव औषधविपणनमिति रांदेवस्य वादः। केन्द्रीय-औषधनियन्त्रकसंङ्घस्य अङ्गीकारः अस्तीत्यतः 158 राष्ट्रेषु ेतत् विक्रेतुं शक्यते इत्यपि रांदेवः वदति स्म। परन्तु भारतीयवैद्यकसङ्घः  एतदौषधं प्रति विरोधः प्राकटयत्। कोविड् चिकित्सार्थं कमपि पारम्परिकौषधम् अस्माभिः न निर्दिष्टम् इति विश्व स्वास्थ्य सङ्घेनापि सूचितम्।

Leave a Reply

Your email address will not be published. Required fields are marked *