महाकविः अक्कित्तम् कालकबलीभूतो अभवत्।

तृशूर् – ज्ञानपीठविजेता वरिष्ठः कैरलीमहाकविश्च पद्मश्री  अक्कित्तम् अच्युतन् नम्पूतिरिवर्यः निर्यातः। स 94 वयस्कः आसीत्। तृशूर् नगरे निजीय चिकित्सालये अद्यः प्रातः 8.10 वादने आसीत् अन्त्यम्। वार्धक्यसहजेन आमयेन चिकित्सायामासीत्। द्विदिवसात् पूर्वं  गुरुतरेण अस्वास्थ्येन स चिकित्सालयं नीतः आसीत्।

     अस्मिन् वर्षे भारतसर्वकारेणः जञानपीठपुरस्कारं दत्वा स समादृतः । आमयपीडितत्वात्@ गते सेप्तम्बर् 24 दिनाङ्के ज्ञानपीठपुरस्कारः  तस्य गृहे आयोजिते अधिवेशने एव दत्तः।

2008 तमे वर्षे केरलसर्वकारस्य एषुत्तच्छन् पुरस्कारः, 2012 तमे वर्षे वयलार् पुरस्कारः, ततः पद्मश्रीपुरस्कारश्च अनेन पाप्ताः। तस्य इरुपतां नूट्टाण्टिन्टे इतिहासं इति कैरलीकविता मलयालभाषायाः आधुनिकतायै निदानरूपेण परिगण्यते। 1956तः 1985 पर्यन्तं स महाकविः आकाशवाण्यां सम्पादकरूपेण कर्म कृतवान्।, कविताः, नाटकानि, कथाश्च आहत्य षट्चत्वारिंशत् साहित्यरचना अनेन कृता।

     1926 तमे वर्षे मार्च् मासस्य 18 दिनाङ्के पालक्काट् मण्डले कुमारनल्लूर् देशे अमेट्टूर् अक्कित्तत्त् मनायां अयं महाकविः भूदातः अभवत्।   अस्य मृत्युना कैरलीकवितायाः इतिहास एव अनतरधात् इति प्रमुखाः वदन्ति।

Leave a Reply

Your email address will not be published. Required fields are marked *