शबरिमला- भक्तानां प्रवेशाय सज्जीकरणं भविष्यति।

तिरुवनन्तपुरम्- मण्डलव्रतकाले शबरिमलमन्दिरे भक्तानां प्रवेश‌ः आराधना च अवश्यं स्यादित्येव देवस्वसमितेः अभिप्रायः इति समित्यध्यक्षः एन् वासु वर्यः अवदत्। भक्तानां संख्यानियन्त्रणं जालाधिष्ठितपङ्क्तिद्वारा प्रवेशः इत्यादिष्वपि निर्णयो जातः। भक्तानां दर्शनसमये अनुवर्तनीयान् मार्गनिर्देशान् समर्पयितुं मुख्यसचिवस्य नेतृत्वे विशेषसमितिः रूपवत्कृता, समितेः आवेदनम् एकसप्ताहाभ्यन्तरे प्राप्स्यतीत्यपि अध्यक्षः अवदत्। अवलोकनाधिवेशनानन्तरं वार्ताहरैः सह भाषमाण आसीत् सः।

तीर्थाटकानां मन्दिरप्रवेशात् प्रागेव ते कोविड्ग्रस्ताः न भवन्तीति निर्णेतुं सुविधा आयोजिता। घृताभिषेकः विशेषरीत्या प्रचाल्यते। सन्निधाने शयनार्थं सुविधा न भविता। अन्नदानं परिमितया रीत्या आयोज्यते।

गतसप्तमासेन कोविड् मानदण्डपरिपालनकारणात् मन्दिरे भक्ताः न प्रवेशिताः। तदर्थं निर्णयस्वीकारायैव मुख्यमन्त्रिणः आध्यक्ष्ये अधिवेशनम् आयोजितमासीत्।

Leave a Reply

Your email address will not be published. Required fields are marked *