अक्कित्तं ज्ञानपीठप्रभायाम्।

    पालक्काट् –  2019 तमवर्षस्य ज्ञानपीठपुरस्कारं कैरली साहित्यकाराय अक्कित्तम् अच्युतन् नम्पूतिरिवर्याय समार्पयत् । सहित्यविभागे भारतसर्वकारस्य सर्वोन्नतः पुरस्कार एषः।  कैरलीविभागे पुरास्कामार्जितेषु षष्ठ: आसीत् अयं महाशयः ।1926 तमे वर्षे मार्चमासस्य अष्टादशतमे दिने पालकाट् प्रान्ते कुमरनेल्लूर ग्रामे अक्कित्तत्त्  ब्राह्मणकुले महाकवे: जन्म । कुमरनेल्लूर् सर्वकारीयविद्यालये प्राथमिकपठनं पुनः कोषिकोट् सामूतिरिकलालये स्नातकलाभः । ततः कोटक्काट् शङ्कुण्णि नम्पीशन् वर्यात् संस्कृतपठनम् ।  ततः कोषिकोट् आकाशवाण्यां कर्मनिरतो∫भवत् ।

      महाकवे : ‘इरुपतां नूटटाण्डिन्टे इतिहासम्’ इति ग्रन्थः तस्य रचनासु प्रामुख्यं भजते। बलिदर्शनम्’ अन्तिमहाकालम् ‘ इटिञ्ञुपोलिञ्ञ लोकम्’ अक्कित्तत्तिन्टे गद्यलेखनानि इत्यादयो प्रमुखा : ग्रन्था: भवन्ति।

     ज्ञानपीठ पुरस्कार: 1965 तमे वर्षे भारतसर्वकारेण समायोजितः वर्तते। एकादशलक्षं रुप्यकाणि सरस्वतीदेवतायाः विग्रह: प्रशस्तिपत्रञ्च पुरस्कारस्वरूपम् । केरलेषु पञ्चसाहित्यकाराः पुरस्कारेणानेन पूर्वं समादृताः वर्तन्ते । महाकवि जि . शङ्करकुरुप्पु (1965) ‘ तकषि शिवशङ्करपिल्ला (1984) एस के पाट्टेक्काट् (1980) एम् टि वासुदेवन नायर( 1995 ) प्रो ओ एन वि कुरुप्प् (2007) चैते ।
सप्तम्बर मासस्य चतुर्विंशतितमे दिनाङ्के कुमरनेल्लूरस्थे अक्कित्तत्तु भवने पुरस्कारः समर्पितः। केरल मुख्यमन्त्री पिणरायि विजयः ,  एम् टि वासुदेवन् नायर्  प्रतिभा राय् प्रभृतयः अन्तर्जालिकद्वारेण तत्र भागभाज आसन् । केरलस्य सांस्कृतिकविभाग मन्त्री श्री ए के बालन् पुरस्कारं समार्पयत् । केरलीयानां प्रमोदावसरे नववाणी पत्रिकायाः  वर्धापनानि महाकवये समर्पयाम:।

Leave a Reply

Your email address will not be published. Required fields are marked *