जे.इ.इ. नीट् परीक्षयोः परिवर्तनं नास्ति। परिवरितनीयमिति आवेदनं सर्वोच्चन्यायालयेन निरस्तम्।

नवदिल्ली- अखिलभारतीय वैद्यकप्रवेशकपरीक्ष (नीट्) तथा तान्त्रिककलाशालप्रवेशिका जे.इ.इ इति द्वे परीक्षे परिवर्तनीये इत्यावेदनं सर्वोच्चन्यायालयेन निरस्तम्। छात्राणां भाविजीवनम् अपघाते पातयितुं न शक्यते इति निरीक्ष्यमाणः न्यायाधीशस्य अरुण् मिश्रावर्यस्य आध्यक्ष्ये आयोजितस्य संवेशनस्यैव अयम निर्णयः।

     सेप्तम्बर् मासे एव नीट् जे.इ.इ. परीक्षां सञ्चालयितुं केन्द्रसर्वकारस्य निर्णय आसीत्। कोविड् रोगस्य भूमिकायां परीक्षापरिवर्तनमाववश्यकमिति आवेदयन्तः एकादशछात्राः एव सर्वोच्चन्यायालयं प्रावन्।

     परीक्षा संचालनार्थं सर्वान् प्रयत्नान् जागरूकतया करिष्यति इति सर्वकारस्य प्राड्विवाकः न्यायालयं समवबोधयत्। सुरक्षानिर्देशं परिपाल्य परीक्षासञ्चालनार्थं सन्नद्धाः इत्यपि परीक्षायोगः न्यायालयं प्राबोधयत्।

Leave a Reply

Your email address will not be published. Required fields are marked *