कृष्णशिलाखनीनां प्रवर्तनसम्ब्न्धी निर्णयः उच्चन्यायालयेन स्थगितः

कोच्ची- केरलराज्ये क़ृष्णशिलाखनीनां प्रवर्तनसम्बन्धी हरितव्यवहारासनस्य आदेशः उच्चन्यायालयेन स्थगितः। खनिप्रवर्तने जनावासक्षेत्रात् २०० मीट्टर् दूरपरिधिः व्यवहारासनेन कल्पितः आसीत्। एष एव उच्चन्यायालयेन स्थगितः। ५० मीट्टर् दूरपरिधिरेव सर्वकारेण कल्पितः आसीत्।

पालक्काट मण्डलात् आवेदितानां जनानाम् आवश्यं परिगणय्य एव हरितव्यवहारासनं निर्णयमदात्। एतद्विरुध्य कृष्णशिलाखनिस्वामिभिः दत्ते आवेदने एव उच्चन्यायालयस्य विधिनिर्णयः सञ्जातः। केवलं परिष्ठितिविभागस्य वादमङ्गीकृत्यैव हरितव्यवहारासनेन निरणयदित्यासीत् खनिस्वामिनां वादः।

उच्चन्यायालयस्य अऩेन निर्णयेन राज्ये तत्स्थित्यनुसारं खनीनां प्रवर्तनं भविष्यति। एतत् पर्यावरणस्य दोषायैव भवेदिति परिष्ठितिवादिनाम् अभिप्रायः।

Leave a Reply

Your email address will not be published. Required fields are marked *