अष्टवैद्यः इ.टि. नारायणन् मूस् वर्यः दिवंगतः।

तृशूर्- ओल्लूर् तैक्काट्टुश्सेरि ग्रामं विश्वप्रसिद्धं कृतवान् वैद्यश्रेष्ठः इ.टि. नारायणन् मूस् वर्यः कालयवनिकायाम् अन्तरधात्। स ८७ वयस्कः आसीत्। वैद्यरत्नम् इति व्यापारमुद्रितस्थापनानाम् अध्यक्षः तथा प्रबन्धननिदेशकश्चासीदयम्।

तैक्काट्टुश्शेरि एलेटत्त् तैक्काट् नीलकण्डन् मूस् देवकी अन्तर्जनं दम्पत्योः दशसु अपत्येषु एक एव पुत्रः अयं १९३३ सेप्तम्बर् १५ दिनाङ्के भूजातः अभवत्।

आयुर्वेदचिकित्सामण्डले अस्य समुन्नतं योगदानं परिकल्प्य राष्ट्रं तं पद्मभूषण् पुरस्कारेण बह्वमन्यत। अपि च प्रधानमन्त्रिणः स्वदेशीपुरस्कारेणापि अयं समादृतः।

केरलेषु प्राचीनकाले १६ अष्टवैद्यपरिवाराः आसन्। अधुना तु केवलं षडेव सन्ति। तेषु प्रमुखः भवति ब्रिट्टीष् सर्वकारेण वैद्यरत्नम् इति बहुमानितः एलेटत्त् मन। १९४१ तमे वर्षे पित्रा स्थापिता आसीत् वैद्यरत्नम् औषधशाला। १९५४ तमे वर्षे नारायणन् मूस् वर्यः तस्याः शालायाः सारथ्यमावहत्। अधुना वैद्यककलालयप्रभृतीनां बहूनां संस्थानां नियन्त्रणं वैद्यरत्नम् इति संधेन क्रियते।

Leave a Reply

Your email address will not be published. Required fields are marked *