कोविड्-19- भारते समाजाभिव्यापनं सम्पन्नमिति भारतीयवैद्यकनिकायः।

नवदिल्ली- भारते कोविड् रोगस्य समाजाभिव्यापनं सम्पन्नमिति भारतीय-वैद्यक-निकायः(I.M.A.). राष्ट्रे एतावत्पर्यन्तं समाजव्यापनं न जातमिति केन्द्रीय-स्वास्थ्यमन्त्रालयस्य वादावृत्तेरन्तराले एव भिषग्वराणाम् अयमभिप्रायः।

     राष्ट्रे एतदभ्यन्तरे कोविड् समाजाभिव्यापनं समभवत्। इतः परं भारते स्थितिः सङ्कीर्णा भवेत्। रोगव्यापनं रूक्षं भवेत् इत्यपि ऐ.एम्. ए. अधिकारी वि.के. मोङ्गा अवदत्।

     प्रतिदिनं राष्ट्रे 30000 इति क्रमेण रोदबाधितानां संख्या वर्धते। अधुना ग्रामप्रदेशेष्वपि रोगव्यापनं तीक्ष्णं भवति। अतः समाजव्यापनमेव सूचयति।

     केरले तिरुवनन्तपुरं मण्डले द्वयोः प्रदेशयोः समाजव्यापनं सञ्जातमिति मुख्यमन्त्री पिणरायि विजयन् वर्यः अवदत्। राष्ट्रे सर्वकारीणतले एव समाजव्यापनस्य स्थिरीकरणं केरले एव जातम्।

Leave a Reply

Your email address will not be published. Required fields are marked *