कोविड् रोगव्यापनम्- तिरुवनन्तपुरं समुद्रतटप्रदेशेषु पूर्णपिधानं विधास्यति। तटप्रदेशः तिस्रः मेखलाः परिकल्प्य प्रतिरोधः।

तिरुवनन्तपुरम्- कोविड् रोगव्यापने वर्धमाने तटप्रदेशेषु पूर्णपिधानं विधास्यतीति मुख्यमन्त्री अवदत्। आगामिनि दिने एतदर्थम् आदेशः दीयते इति अवलोकनयोगानन्तरं मुख्यमन्त्री वार्ताहरान् व्यजिज्ञपत्।

प्रतिरोधप्रवर्तनानि सफलानि कर्तुं तटप्रदेशः मेखलात्रयरूपेण पर्यकल्पयत्। अञ्चुतेङ् आरभ्य पेरुमातुरा पर्यन्तं प्रथममेखला, पेरुमातुरा तः विषिञ्ञं पर्यन्तं द्वितीयमेखला, विषिञ्ञं आरभ्य ऊरम्प् पर्यन्तं तृतीयमेखला च। अत्र स्थितिगतीः नियन्त्रयितुं आरक्षिदलं नियुक्तमित्यपि मुख्यमन्त्री अवदत्।

प्रति मेखलं द्वौ भारतीयप्राशासनिकसेवा राजपुरुषौ दायित्वं स्वीकरिष्यतः। तटप्रदेशे यात्रार्थं निरोधः आयोजितः। अवश्यकार्यायैव यात्रोद्यमः भवेयुरिति मुख्यमन्त्री अवदत्।

Leave a Reply

Your email address will not be published. Required fields are marked *