वृत्तिसाध्यतां प्रवर्धयितुं नूतना परियोजना प्रधानमन्त्रिणा घोषिता, व्ययः50000 कोटि रूप्यकाणि।

तिरुवनन्तपुरम्- ग्रामेषु नूतनां वृत्तिसाध्यतां संवर्धयितुं केन्द्रसर्वकारस्य नूतना परियोजना आरभ्यते। गरीब् कल्याण् रोज्गार् योजना इति पद्धतिः प्रधानमन्त्री नरेन्द्रमोदी वर्यः 20 दिनाङ्के उद्घाटयिष्यति। षट्सु राज्येषु 116 मण्डलेषु 125 दिनानि यावत् प्रवर्तमाना रचनापद्धतिरस्तायम्। 50000 कोटिरूप्यकाणां व्ययं प्रतीक्ष्यमाणया परियोजनया पश्चात्तलविकासस्य वृत्तिसाध्यतायाश्च दृढीकरणमेवोद्दिश्यते।

इतरराज्येभ्य प्रतिनिवृत्तमानानां कर्मकराणां तता ग्रामीणानां च कृते इयं पद्धतिः। बिहार् मुख्यमन्त्रिणः  नितीष् कुमार् वर्यस्य तता उपमुख्यमन्त्रिणः सुसील् कुमार् मोदी वर्यस्य च सान्निध्ये 20 दिनाङ्के प्रातः 11 वादने वीडियो द्वारा एव प्रधानमन्त्री उद्घाटयिष्यति।

     बिहारे खगारिया मण्डले तेलिहार् ग्रामे एव पद्धतेरारम्भः। विविधानि 25 निर्माणप्रवर्तनानि 125 दिनेन परिसमाप्यन्ते।

Leave a Reply

Your email address will not be published. Required fields are marked *