उम्पुन् चक्रवातः शक्तिं प्राप्नोति, केरले ११ मण्डलेषु महती वृष्टिः तथा वातश्च भविष्यति।

तिरुवनन्तपुरम्- वंगसमुद्रे रूपं प्राप्तः न्यूनमर्दः शक्तिं प्राप्य चक्रवातरूपेण परिवृते साहचर्ये केरलदेशे सवाता महावृष्टिः भविष्यतीति केन्द्र वातावरणविभागः असूचयत्। आगामिनिषु होरासु केरले ११ मण्डलेषु सौदामिन्या वातेन च युक्ता वृष्टिः भविष्यतीति सूचना। वातस्य वेगः प्रतिहोरं ४० कि.मी. भविता। वंगसमुद्रे रूपं प्राप्तः उम्पुन् नामकः चक्रवातः आगामिनिषु षड्होरासु अतितीव्रः भविष्यति।

श्वः प्रातःकालेन चक्रवातः उग्ररूपं प्राप्स्यति। अधुना ओडीषासमीपस्थात् पारद्वीपात् ९९० कि.मी. दूरे एव चक्रवातस्य सञ्चारपथः। एषः बंगाल् ओडीषा तीरं अचिरेण प्राप्स्यति। चक्रवातस्य अतितीव्रत्वे प्रतिहोरं २०० कि.मी. वेगं प्राप्तुं साध्यता अस्ति।

कुजवासरे रात्रौ एष वातः भारततीरे घोररूपेण आगमिष्यति। मत्स्यकर्मकराः समुद्रं मा गच्छत इति जाग्रतानिर्देशः घोषितः। केरलं चक्रवातस्य सञ्चारपथे नास्ति। तथापि तत्प्रभावेण अतितीव्रा वृष्टिः अत्र भविष्यति।

Leave a Reply

Your email address will not be published. Required fields are marked *