नियतकक्ष्यासदृशम् अधिजालिकपठनमपि। रूपरेखा अर्धहोरावधिकी।

तिरुवनन्तपुरम्- अस्मिन् वर्षे जूण् प्रथमदिने नियतप्रवेशोत्सवः न भविष्यति। परं कक्ष्यासमयः प्रातः नववादनात् सायं चतनर्वादनपर्यन्तं भविष्यति। जूण् प्रथमदिनादारभ्य अधिजालिककक्ष्या प्रतिसन्धिसन्तरणाय छात्राणाम् उत्प्रेरकः स्यात्।

प्रथमकक्ष्यायाम् एकादशकक्ष्यायां च नूतनप्रवेशो भवतीत्यतः एते कक्ष्ये विहायैव अधिजालिकपठनानि आयोज्यन्ते। सप्तान्तरसमन्वितायां रीत्यां कक्ष्या न भविता। प्रथमान्तरं पञ्चमकक्ष्यायाः कृते चेत् द्वितीयमन्तरं षष्ठकक्ष्यायाः कृते इति क्रमेण नववादनात् चतुर्वादनपर्यन्तं विविधवर्गाणां कक्ष्या भविष्यति। पृथक् चिताः कक्ष्याः रात्रौ पुनरपि द्रष्टुं शक्यन्ते।

अधिजाविकरक्ष्या राज्यस्तरीया इत्यतः ४५ निमेष इति व्यवस्था नास्ति। रूपरेखानुसापम् अर्धहोरावधिकः समय एव एकस्य विषयस्य कृते निश्चितः वर्तते।

Leave a Reply

Your email address will not be published. Required fields are marked *