कोविड् प्रतिरोधप्रवर्तनाय अर्थसमाहरणम्- राज्ये सार्वकारीयकर्मकराणां वेतनात् ईषद्भागं स्वीकर्तुम् उद्यमः।

तिरुवनन्तपुरम्- केरलराज्ये कोविड् प्रतिरोधप्रवर्तनाय धनं समाहर्तुं सार्वकारीयकर्मकराणां वेतनं गृहीष्यति। षड्दिवसीयं वेतनं पञ्चसु मासेषु क्रमशः स्वीकर्तुं मन्त्रिमण्डलस्य निर्णयः। यदा आर्थिकस्थितिः भद्रा भवति तदा स्वीकृतं वेतनांशं प्रतिददाति इति व्यवस्था च आयोज्यते। स्वास्थ्यविभागीयानां रक्षिदलीयानां च न कोपि आश्वासः विद्यते, परं प्रतिमासं २०००० रूप्यकेभ्यो न्यूनं वेतनं स्वीकुर्वन्तः कर्मकराः अर्धसमयकर्मकराश्च स्वेच्छया वेतनं दातुं प्रभवन्ति।

कर्मकराणाम् एकमासीयं वेतनं अनेन लभ्यते। मन्त्रिणां सामाजिकानां निगमाध्यक्षाणां च वेतनं त्रिंशत् प्रतिशतमिति रीत्या एकवर्षं यावत् गृहीतुमपि निर्णयः अस्ति।

राज्ये कोविड् व्यापनस्थितिः आशावहा नास्तीति मन्त्रिमण्डले विचारितम्। अतः जनैः जागरूकैः भाव्यमिति उद्घोषणा दत्ता।

Leave a Reply

Your email address will not be published. Required fields are marked *