अध्यापका‌ छात्रेषु आत्मविश्वासं प्रसारयन्तु- शिक्षामन्त्री।

तिरुवनन्तपुरम्- राज्ये सार्वजनीनविद्यालयस्थाः सर्वे अध्यापकाः छात्रान् दूरवाणीद्वारा आहूय तेषु आत्मविश्वासं विवर्धेरन् इति शिक्षामन्त्री प्रोफ. सी. रवीन्द्रनाथवर्यः निरदिशत्।

यदा नियन्त्रणानि अवसीयन्ते तदा एस्.एस्.एल्.सी., प्लस्-टु परीक्षाः प्रचलिष्यन्ति। कोविड् प्रतिरोधयज्ञे वयं यदा विजयिनो भवामः तदैव परीक्षा प्रारभ्स्यते। जूण् प्रथमे दिनाङ्के विद्यालयेषु अध्ययनप्रारम्भः भविष्यति इति प्रतीक्षा अस्ति। यदि न शक्यते तर्हि पाठ्यपद्धत्यनुसारं सर्वान् पाठभागान् अध्यापयितुं सुविधा केरलेषु वर्तते। अष्टमकक्ष्यापर्यन्तं पाठपुस्तकानि वितरणकेन्द्रेषु प्रापितानि। शिष्टानि यानसौविध्यमनुसृत्य अचिरेणैव प्रापयिष्यति।

परीक्षाः अधिजालिकरीत्या प्रचालयितुं व्यवस्था अस्ति। साम्प्रदायिकरीत्या परीक्षा नियन्त्रणात्यये एव स्यात्।

प्राथमिकस्तरीयाः छात्राः समग्रा इति अधिजालिकव्यवस्थामुपयुज्य क्रीडा पठनं च समारभन्ताम् इत्यपि मन्त्री अवदत्।

Leave a Reply

Your email address will not be published. Required fields are marked *