राज्ये सर्वाः परीक्षाः व्याक्षिप्ताः।

तिरुवनन्तपुरम्- कोरोणा विषाणुबाधायाः भूमिकायां राज्ये सर्वाः परीक्षाः व्याक्षिप्ताः इति सर्वकारेण व्यजिज्ञपत्। एस्.एस्.एल्.सी. प्लस़्-२, विश्वविद्यालयीयाः परीक्षः एवं व्याक्षिपन्ति इति अद्य मुख्यमन्त्रिणा आयोजिते उच्चतराधिवेशने निर्णयः। इतः परं प्रवर्तमानाः परीक्षाः एव परिवर्तिताः।

नवीन कोरोणाविषाणोः व्यापनसाध्यतां परिकल्प्य सर्वकारेण स्वीकृता जागरूकता एव परिक्षा परिवर्तनस्य हेतुः। अपि च राष्ट्रे सर्वा परीक्षाः परिवर्तनीया इति केन्द्रसर्वकारस्य निर्देशः अप्यासीत्।

अष्टमनवमकक्ष्यायोः अवशिष्टाः परीक्षाः न प्रचलिष्यन्ति। तेषां छात्राणां सत्रद्वयपरीक्षयोः माध्यं स्वीकृत्य कक्ष्यारोहणं भविष्यति।

Leave a Reply

Your email address will not be published. Required fields are marked *