आकाशे ग्रहसंघातः सज्जो भवति। मार्च् १९ तः मेय् अन्तिमं यावत् दृष्टिगोचरो भविष्यति।

पय्यन्नूर्- वाननिरीक्षकाणां कौतुकावहं विस्मयदृश्यम् आकाशे सज्जं वर्तते। आगामिनि दिने बुधः, शुक्रः, कुजः, गुरुः, शनिः एते ग्रहाः विना किमप्युपकरणं दृष्टिगोचराः स्युः। मार्च् १९ तः मेय् अन्तिमं यावत् आकाशे एते ग्रहाः प्रकाश्यमानाः वर्तेरन्। अधुना अधिकविरामः इत्यतः छात्राणामपि एषः सुवर्णावसर एव।

सायम् आकाशस्य पश्चिमे पार्श्वे ४८ डिग्री उन्नतौ शुक्रं द्रष्टुं शक्यते। अनुवर्तमानेषु दिनेषु निम्नतां प्राप्य मेय् अन्तिमे वारे दृष्टिपथात् तिरोभविष्यति। ततः पूर्वस्मिन् चक्रवाले शुक्रः प्रत्यक्षो भवेत्। मार्च् २८ तः मेय् २६ पर्यन्तं चन्द्रं शुक्रं च युगपद् द्रष्टुं शक्यते।

बुधः, कुजः, गुरुः, शनिः, इत्येतान् ग्रहान् पूर्व-दक्षिणभागे प्रातः चतुर्वादनात् सूर्योदयं यावत् नग्ननेत्रैः द्रष्टुं शक्नुमः। १९ दिनाङ्कात् प्रभृति कुजः, गुरुः, शनिः इत्येतान् ग्रहान् सपीमस्थान् पश्येमः। कुजः ऊर्धं, गुरुः मध्ये शनिः अधश्च एषां विन्यासः।

अनुवर्तमानेषु दिनेषु इषत् स्थानभेदेन मेय् अन्तिमवारं यावत् एते ग्रहाः दृष्टिगोचराः भविष्यन्ति। केरलेषु बहुषु स्थलेषु एनं विस्मयं द्रष्टुं सौविध्यं प्रकल्पयिष्यति।

Leave a Reply

Your email address will not be published. Required fields are marked *