नववाण्याः दशवार्षिकसमारोहः संस्कृतह्रस्वचलच्चित्रोत्सवश्च।

इरिङ्ङालक्कुट- संस्कृतभाषामण्डले प्रमुखः जालसेवामाध्यमः भवति नववाणी। वार्ताः संस्कृतभाषासम्बन्धीनि सर्वाणि कार्याणि, जालसेवाद्वारा पठनविभवानां वितरणं, भाषापोषणार्थं प्रतिसप्ताहं समस्यापूरणमत्सरः, प्रश्नोत्तरम् इत्यादीनि प्रवर्तनानि आयोजयति। अष्टलक्षम् अनुवाचकाः इतः पर्यन्तं नववाणीमन्वाश्रयन्। नववाण्याः प्रवर्तनानि दशवर्षाणि अतीतानि।

नववाण्याः दशवार्षिकस्य अनुबन्धतया इरिङ्ङालक्कुट संस्कृत-अक्कादमिकसमितिः २०२० फेब्रुवरी ११ दिनाङ्के इरिङ्ङालक्कुट एं सी.पी. आन्ताराष्ट्रिय-समारोहमन्दिरे संस्कृत-ह्रस्वचलच्चित्रोत्सवम् आयेजयति। चलचित्र-सांस्कृतिकमण्डलस्थाः प्रमुखाः विद्वांसः अस्मिन्नुत्सवे भागं भजन्ते। सत्रत्रयरूपेणैव उत्सवस्य आयोजनम्।

प्रथमम् उद्घाटनसत्रम्। मण्डलशिक्षाधिकारिणी एम् आर् जयश्रीवर्या स्वागतभाषणं विधास्यति। नगरसभायाः अध्यक्षा निम्या षिजू वर्या आध्यक्ष्यं निर्वक्ष्यति। तृशूर् जिला पञ्चायत् अध्यक्षा मेरी तोमस् वर्या उद्घाटनं विधास्यति। विधानसभायाः भूतपूर्वसदस्य तोमस् उण्णियाटन् वर्यः अतिथिः भविता। शिक्षा विभागे तृशूर् उपनिदेशिका श्रीमति गीता वर्या मुख्यभाषणं करिष्यति

समारोहे अस्मिन् डो. पी. नारायणन् नम्पूतिरि‌ः, डो. टी.डी. सुनीतीदेविः, एन्. के. रामचन्द्रन्, एन्, भस्करन्, एन्. नारयणन् इत्येतान् समादरिष्यते। एस्. सी. इ. आर्.टी संस्कृतम् अधिकारी वी,श्रीकण्ठन्, डो. एं.वी. नटेशन्, सनल् चन्द्रन्, अब्दुल् रसाख्, सुरेष् बाबू एन् एस् प्रभृतयः आशंसां प्रकाशयिष्यति।

द्वितीयं सत्रं संस्कृतह्रस्वचलचित्राणां प्रदर्शनमेव। षट् चलचित्राणि एतदर्थं चितानि।

तृतीयं सत्रं पुरस्कारप्रख्यापनं वितरणं च। नववाण्याः मुख्यसम्पादकः सी.वी. जोस् वर्यः स्वागतं व्याहरिष्यति। केरलकलामण्डलं मुक्तविश्वविद्यालयस्य कुलपतिः डो. टी.के. नारायणन् वर्यः मुख्यातिथिः भविता। इटवेल बाबू, सुनिल् सुगत, नन्दकिषोर्, मेजर् प्रमोद् राघवन्, पी.के. भरतन्, श्रीमती सोणिया गिरिः, कुमारी आतिरा पट्टेल्, श्री गोकुल् मङ्गलत् प्रभृतीनां विशिष्टं सान्निध्यमपि भविष्यति।

प्रो. वी. माधवन् पिल्ला, डो. सुनिल् कुमार् कोरोत्, सी.सी. सुरेष्, डो. एस्.एन् महेष् बाबू, षाजू पोट्टक्कल् प्रभृतयः आशंसा व्याहरिष्यति। श्री सुरेष् बाबू सी.सी. कृतज्ञतां च प्रकाशयिष्यति।

संस्कृतक्षेत्रे अयमुत्सवः नूतन‌ः पदविन्यास एव। आधुनिककालेन सह संस्कृतस्य समायोजनमेव अनेन लक्ष्यते। केरलमासमन्तात् अध्यापकानां छात्राणां च सान्निध्यमत्र प्रतीक्षे।

Leave a Reply

Your email address will not be published. Required fields are marked *