संस्कृतविभागे इस्लां धर्मावलम्बिनः नियुक्तिः, नियमोपदेशार्थं बनारस् हिन्दू विश्वविद्यालयः।

दिल्ली- संस्कृतविभागे सहप्राचार्यत्वेन इस्लां धर्मावलम्बिनः नियुक्तिं विरुध्य वनारस् हिन्दू विश्वविद्यालये छात्रेषु समराङ्गणं प्रविष्टेषु विश्वविद्यालयः नियमोपदेशमवाप्तुं निरणयत्। नवम्बर् सप्तमे तिथावेव समरमारब्धम्। संस्कृतविभागे संस्कृतधर्मविज्ञान् क्षेत्रे सहप्राचार्यरूपेण फिरोस् खान् वर्यस्य नियुक्तिं विरुध्यैव समरः आरब्धः।

     नियुक्तौ प्रतिषेधं संसूच्य छात्राः कुलपतये लेखं प्रैषयन्। विश्वविद्यालयस्य हृदय एव संस्कृताध्यापकाः इति विश्वविद्यालयस्य स्ंस्थापकः मदनमोहनमाल्व्या वर्यस्य वाक्यमपि छात्राः लेखे सूचयामासुः। अस्यां प्रवृत्तौ गूढालोचना अस्तीति छात्राः अध्यारोपयन्। तस्मिन्नन्तरे जातिधर्मानुसारं नास्ति शिक्षकाणां नियुक्तिः परं नैपुण्यमाधारीकृत्यैव  इति विश्वविद्यालयस्य विशदीकरणमस्ति।

     विश्वविद्यालये सर्वेषाम् अधिकारः तुल्य एव, परं समरे अनुवर्तमाने एव नियमोपदेशाय निरणयत् इति अधिकृतैः सूच्यते। बनारस् हिन्दू विश्वविद्यालयस्य संविधानानुसारं व्यक्ततायै एव नियमोपदेशार्थं प्रवृत्तः इत्यपि ते असूचयन्। छात्रैः साकं कुलपतेः चर्चा होरापरिमितेन संपन्ने सत्यपि समरं समापयितुं छात्राः न सन्नद्धाः सन्ति। फिरोस् खानस्य नियुक्तौ कोपि दोषः नास्तीति संस्कृतविभागस्य अध्यक्षः अवदत्।

Leave a Reply

Your email address will not be published. Required fields are marked *