रष्यया सह चर्चायां समवायः, सिरियासीमातः सैन्यं प्रतिनिवर्तिष्यते इति तुर्की।

सोच्ची- सिरियायाः सीमातः सैन्यं प्रतिनिवर्तिष्यते इति तुर्की राष्ट्रम्। रष्या राष्ट्रनेत्रा व्लादिमिर् पुचिनेन सह सोची स्थले आयोजितायाः चर्चायाः अन्ते एव तुर्कीराष्ट्रस्य प्रत्यावर्तनम्। 150 होराभ्यन्तरे सेनाप्रतिनिवर्तनं पूर्णं भविता इति तुर्की राष्ट्राध्यक्षः तय्यिप् एर्दोगान् वर्यः व्यक्तमकरोत्।

     सेनाप्रतिनिवर्तनानन्तरं रष्यया सह अस्मिन् प्रान्ते  संयुक्तनिरीक्षणं करिष्यतीत्यपि एर्दोगान् वर्यः अवदत्। सिरियस्थान् कुर्द् वंशजान् लक्ष्यीकृत्य क्रियमाणं आक्रमणम् अवलितव्यम् इति लोकराष्ट्राणाम् सूचना तुर्कीराष्ट्रेण निरस्ता आसीत्। यावत् कुर्दिष् नेतृत्वस्थं सिरियन् प्रजातन्त्रसैन्यं आयुधं त्यजन्ति तावत् सैनिकप्रक्रिया नावसीयते इत्यासीत् तुर्कीराष्ट्राध्यक्षस्य तय्यिप् एर्दोगान् वर्यस्य निश्चयः। कुर्द् सैन्येन साकं रष्यासैन्यमपि अयुङ्क्त। अनेन स्थितिः सङ्कीर्णा अभवत्। एतदनन्तरं ब्रिट्टन्, स्पेयिन्, स्वीडन् प्रभृतीनि राष्ट्राणि अपि तुर्किं प्रति आयुधदानं समापयितुम् उद्यतानि। अन्ते रष्यया सह चर्चायां सैन्यप्रतिनिवर्तनं तुर्की अङ्गीकरोति स्म।

Leave a Reply

Your email address will not be published. Required fields are marked *