अमिताब् बच्चन् वर्याय दादासाहेब् फाल्के पुरस्कारः।

नवदिल्ली- भारतीयचलचित्ररंगे बिग् बी इति विख्यातः अमिताब् बच्चन् वर्यः दादासाहेब् फाल्के इत्याख्येन भारतीय चलचित्ररंगस्य परमोन्नतपुरस्कारेण समादृतः। सूचना-प्रसारणमन्त्री प्रकाश् जावदेकर् वर्यः इदमुदघोषयत्। ऐककण्ठ्येनैव बच्चन् वर्यः पुरस्काराय चितः इति मन्त्री अवदत्।

     उत्कृष्टनटाय दीयमानः राष्ट्रियपुरस्कारः चतुर्वारम् अनेन समासादितः। अपि च पद्मश्री पद्मभूषण् पद्मविभूषण् पुरस्कारेणापि अयं समादृतः अभवत्।

     १९६९ तमे वर्षे सात् हिन्दुस्थानी इति हिन्दी चलचित्रस्य नायकत्वेन रंगमागतः अयं महानुभावः दशकचतुष्टयं यावत् स्वकीयम् अभिनयपाटवं प्रदर्शयन् विललास।

     हरिवंश राय् बच्चन् तेजस्वी दम्पत्योः पुत्रः भवत्ययम्। विख्याता नटी जया बादुरी तस्य पत्नी। अस्य श्वेता, नन्दा इति द्वे पुत्री स्तः। विख्यातः नटः अभिषेक् बच्चन् तस्य पुत्रः, ऐश्वर्या राय् इति नटी स्नुषा च भवति।

Leave a Reply

Your email address will not be published. Required fields are marked *