सर्वकारं सैन्यं न्यायतन्त्रं च विमर्शयितुं पौराणामधिकारः अस्ति। तत् राष्ट्रद्रोहत्वेन व्याख्यातुं न शक्नोति- न्यायाधीशः दीपक् गुप्ता।

अहम्मदाबाद्- सर्वकारं सैन्यं न्यायतन्त्रं च विमर्शयितुं भारते पौराणाम् अधिकारः अस्ति। तादृशं विमर्शनं राष्ट्रद्रोहपरमिति व्याख्यातुं न शक्यम् इति सर्वोच्चन्यायालयस्य न्यायाधिपः दीपक् गुप्तावर्यः अवदत्। तादृशं विमर्शनं यदि निरुध्यते तर्हि राष्ट्रमिदं प्रजातन्त्रघटनातः सैन्यतन्त्रघटनायां पतिष्यति इत्यपि स न्यगादीत्।

अहम्मदबादस्था काचन संस्थाया तथा न्या. पी.डी.देशायि स्मारकप्रभाषणसमितिना च संयुक्तेन आयोजिते अधिवेशने राष्ट्रद्रोहम् अभिप्रायस्वातन्त्र्यं च इति विषये भाषमाण आसीत् न्यायाधीशः।

एतत् स्वकीयः वैयक्तिकः अभिप्रायः इति सूचयन् स प्रभाषणमारभत।

Leave a Reply

Your email address will not be published. Required fields are marked *