भूतपूर्वःकेन्द्रमन्त्री आरिफ् मुहम्मद् खान् केरलस्य नूतनः राज्यपालः।

नवदिल्ली- केन्द्रमन्त्रिचरः आरिफ् मुहम्मद् खान् वर्यः केरले राज्यपालत्वेन नियुक्तः। इदानीन्तनः राज्यपालस्य ज. पी. सदाशिवं वर्यस्य दायित्वं सेप्तम्बर् प्रथमे वारे अवसितं भविता। अत एव नूतनं राज्यपालं न्ययुङ्क्त। ईसस्य स्वकीये राज्ये राज्यपालपदवीं स्वीकर्तुम् अतीव सन्तुष्टिरस्तीति नियुक्तः राज्यपालः अवदत्।

उत्तरप्रदेशे बुलन्द् शहर् देशीयः भवति आरिफ् मुहम्मद् खान् वर्यः। छात्रनेतृत्वं स्वीकृत्य अयं राजनैतिकरंगमागतः। भारतीय क्रान्ति दलस्य प्रत्याशी भूत्वा  सियाना मण्डलात्  निर्वाचनार्थम् अयतत। परंतु पराजितः अभवत्।

१९८० तमे वर्षे कोण्ग्रेस् दलस्य प्रत्याशी भूत्वा लोकसभां प्रविष्टः। ततः राजीवगान्धिना सह मतभेदं प्रकटय्य कोण्ग्रेस् दलं तत्याज। इस्लां व्यक्तिनियमप्रस्तावे आसीत् मतभेदः। अनन्तरं स जनतादले अंगमभवत्। जनतादल् शासनकाले अयं व्योमयान- ऊर्जविभागयोः मन्त्री अभवत्। ततः जनतादलं परित्यज्य बि.एस्.पी. दले अङ्गमभवत्। ततः १९९८ तमे वर्षे पुनः लोकसभाङ्गत्वेन चितः। २००४ तमे वर्षे भा.ज.पा. दले अङ्गत्वं स्वीचकार। २००७ तमे वर्षे स भा.ज.पा. दलमपि पर्यत्यजत्। तथापि मुत्तलाख् विषये स प्रधानमन्त्रिणं मोदीवर्यं अन्वकूलयत्।

पञ्चसु राज्येषु राज्यपालानां नियुक्तिः अद्य जाता।

Leave a Reply

Your email address will not be published. Required fields are marked *