पादवार्षिकपरीक्षा- दशमवर्गस्य उच्चतरवर्गस्य च एकस्मिन् समये परीक्षा।

कोच्ची- सार्वजनीनविद्यालयेषु नवीकृतः परीक्षाक्रमः पादवार्षिकपरीक्षायाः आरभ्य अनुवर्तयितुम् शिक्षाविभागः सन्नह्यति। परन्तु नवीकृते समयक्रमे परीक्षां सञ्चालयितुं सिद्धता नारब्धा इति विषये अध्यापकानाम् आशङ्का वर्तते।

पादवार्षिकपरीक्षा आगस्त २६ दिनाङ्के नूतनसमयक्रमे आरभते इति सूचना लब्धा। परं सुविधायोजनविषये कापि सूचना न लब्धा इत्यध्यापकाः कथयन्ति।

गतवर्षं यावत् उच्चतरवर्गाणां परीक्षा पूर्वाह्णे दशमवर्गस्य परीक्षा अपराह्ने च आयोजिता। मार्चमासस्य कठिने निदाघे अपराह्नसमये परीक्षा छात्राणां दुस्सहा इति बालावकाशायोगे आवेदनं लब्धमासीत्। अत एव दशमकक्ष्यापरीक्षा अस्मिन् वर्षे उच्चतरवर्गस्य परीक्षया सह सञ्चालयितुं निरणयत्। तस्य प्रतिमानरूपेण पादवार्षिकपरीक्षापि एवं सञ्चालयतीति अधिकारिभिः निगदितम्।

Leave a Reply

Your email address will not be published. Required fields are marked *