सुषमा स्वराज् वर्या निर्याता, राजनैतिकमण्डले प्रियङ्करी नेत्री आसीत्।

नवदिल्ली- वरिष्ठा भा.ज.पा. नेत्री तथा विदेशकार्यमन्त्रिचरा च सुषमा स्वराज् वर्या दिवंगता। दिल्ली एयिंस् चिकित्सालये सा एहिकं देहं तत्याज। हृदयाघात एव मृत्युकारणमिति सूचना। सा 67 वयस्का आसीत्। मरणाद् ईषद् होरायाः पूर्वं काश्मीर् विषये प्रधानमन्त्रिणं नरेन्द्रमोदीवर्यं ट्विट्टर् द्वारा सा अभ्यनन्दयत्।

     भा.ज.पा. दलस्य तथा अन्येषां विपक्षिदलानां च प्रियङ्करी आसीत् सा। स्वकीयेन राजनैतिकवैदग्ध्येन राष्ट्रान्तरे संलग्नानां असंख्यानां प्रवासिनां साहाय्यम् अनया महाभागया व्यदधात्।

     अनारोग्यकारणेन गते लोकसभानिर्वाचने सा प्रत्याशी नासीत्। तथापि समाजमाध्यमद्वारा सा राजनैतिकमण्डले कर्मकुशला आसीत्। समाजमाध्यमद्वारा सामाजिकान् प्रति सुदृढं बन्धम् सा पर्यपालयत्। अत एव आराष्ट्रं वहवः आराधकाः तां स्तुवन्तः  अवर्तन्त।

Leave a Reply

Your email address will not be published. Required fields are marked *