विख्यातः कविः आट्टूर् रविवर्मा कालकबलीभूतः।

तृशूर्- विख्यातः कविः विवर्तकश्च आट्टूर् रविवर्मावर्यः दिवमगात्। स 88वयस्कः आसीत्। केन्द्र-केरल-साहित्य अक्कादमीपुरस्कारः अवाप्तवानयम्। तृशिवपुरस्थे निजीयचिकित्सालये आसीदस्य अन्त्यम्।

     केरलराज्यसर्वकारस्य उन्नतः पुरस्कारः एषुत्तच्चन् पुरस्कारः अनेन अवाप्तः। तद्वत् अन्ये बहवः पुरस्कारोऽपि अनेन लब्धः। आट्टूर् रविवर्मयुटे कवितकल्-भागं-1, भागं-2 इत्येतौ तस्य कवितासमाहारौ। सुन्दररामस्वामिवर्यस्य ओरु पुलिमरत्तिन्टे कथ प्रभृतीनि तमिल् नवीनानि अनेन विवर्तितानि। पुतुनानूर्, भक्तिकाव्यम् इत्येये कविताविवर्तनानि। कम्परामायणस्य विवर्तनं चलदासीत्।

     तृश्शिवपुरे आट्टूर् ग्रामे 1930 वर्षे कृष्णन् नम्पूतिरि-देवकियम्मादम्पत्योः पुत्रत्वेन अयं भूजातः। विविधेषु सर्वकारीयकलालयेषु प्राध्यापकपदवीमयम् अलञ्चकार। महात्मनोऽस्य देहवियोगे साहित्यलोकः अनुशोचनम् समार्पयत्।

Leave a Reply

Your email address will not be published. Required fields are marked *