चन्द्रयान्-२ विक्षेपणाय मुहूर्तगणना समारब्धा।

चेन्नै- राष्ट्रम् आकाङ्क्षया प्रतिपाल्यमानं चन्द्रयान् -२ विक्षेपणम् श्वः प्रातः भविष्यति। विक्षेपणार्थं मुहूर्तगणना समारब्धा। २० होरा दैर्घ्यमस्ति अस्याः गणनायाः। रविवासरे सायं ६.४३ वादने एव मुहूर्तगणना आरब्धा।
सोमवासरे मध्याह्ने २.४५ वादने पेटकस्य विक्षेपणं भविष्यति। पूर्वं जूलै १५ दिनाङ्के प्रातः २.५० वादने विक्षेपणं निश्चितमासीत्। तदा वाहकपेटके यान्त्रिकन्यूनता संदृष्टा इत्यतः विक्षेपणं स्थगितम्। ऐ.एस्.आर्.ओ. संस्थया विकसितेषु पेटकेषु अतिशक्तं पेटकम् जी.एस्.एल्.वी. मार्क् ३ एव चन्द्रयान् -२ वहति।

Leave a Reply

Your email address will not be published. Required fields are marked *