चन्द्रयान् – २ विक्षेपणतिथिः परिवर्तिता। परिवर्तिततिथिः पश्चात् उद्घुष्यते।

हरिक्कोट्टा- भारतस्य द्वितीयः चान्द्रदौत्योपग्रहः चन्द्रयान् – २ इत्याख्यः विक्षेपणाय सज्जः अस्ति। अद्य प्रातः विक्षेपणीय आसीदयम्। परन्तु साङ्केतिकन्यूनतया विक्षेपणं पश्चादेव भविष्यति इति भारतीय शून्याकाश गवेषणसंस्थया सूचितम्। विक्षेपणाय ५६ निमेषासु २४ कलासु च अवशिष्टे एव परिवर्तनाय निर्णयः जातः। सोमवासरे प्रातः २.१५ वादने श्रीहरिक्कोट्टायाः सतीष् धवान् शून्याकाशनिलयादेव विक्षेपो निर्णीतः आसीत्। राष्ट्रपतिः रामनाथ कोविन्दप्रभृतयो महान्तः विक्षेपणं साक्षाद्द्रष्टुम् अत्रागताः आसीत्। तदन्तरे जी.एस्.एल्.वी. पेटके साङ्केतिकन्यूनता दृष्टा। अतः तिथिपरिवर्तन् जातम्।

Leave a Reply

Your email address will not be published. Required fields are marked *