रत्नगिरिमण्डले जलबन्धभङ्गेन 22 जनाः तिरोभूताः, 12 गृहाणि वाहितानि।

मुम्बै- महाराष्ट्राराज्ये रत्नगिरि मण्डले तिवारि जलबन्धः भग्नः अभवत्। अस्यां दुर्घटनायां 12 गृहाणि आप्लावितानि। 22 जनाः तिरोभूताश्च। तिरोभूतेषु द्वयोः मृतदेहो लब्धः। राष्ट्रिय-दूरन्तनिवारणसेना दुरन्तमेखलां प्रस्थिता।

     प्रलयसमानः अन्तरिक्षो भवति रत्नगिर्याम्। कुजवासरे रात्रौ दशवादने अतिशक्ता वृष्टिरजायत। तदानीमेव जलबन्धभङ्गः अजायत। जलबन्धस्थो जलौघः समीपस्थान् ग्रामान् आप्लावितः। रत्नगिरिमण्डले चिप्लुन् तालूख् मेखलायामेव 12 गृहाणि प्रवाहितानि अभवन्। कुजवासरे प्रातः एव जलबन्धे छिद्रः अदृश्यत। तदानीं यूक्तो जाग्रता निर्देषः जनेभ्यो न दत्तः।

     गतेषु पञ्चसु दिनेषु महाराष्ट्रा राज्ये   घोरा वृष्टिरजायत। अनेन महान् नष्टोपि राज्ये समजायत।

Leave a Reply

Your email address will not be published. Required fields are marked *