केरलीयरथ्यासु १० लक्षं ई यानानि प्रस्थास्यन्ति।

कोच्ची- पारिस्थितिकसंरक्षणं लक्ष्यीकृत्य केरलीयासु रथ्यासु १० लक्षं वैद्यतयानानां सेवनमायोजयितुं सर्वकारः निरणयत्। आगामिनि वर्षद्वयाभ्यन्तरे एतानि यानानि रथ्यासु विलसिष्यतीति मुख्यमन्त्री पिणरायि विजयन् वर्यः अब्रवीत्।

एरणाकुलं बोल्गाट्टीमन्दिरे आरब्धस्य इवोल्व् आख्यस्य केरल ई मोबिलिट्टि समारोहस्य उद्घाटनं विधास्यन् भाषमाणः आसीत् स। द्विलक्षं द्विचक्रिकायानानि ५०००० त्रिचक्रिकायानानि १००० वस्तुवाहकयानानि ३००० बस्यानानी १०० जलयानानी च अस्मिन्नन्तर्भवन्ति।

राज्ये वैद्युतवाहनमेखला अपि परिगणनायामस्ति। मून्नार्. कोवलं,बेक्कल् इत्यादीनि विनोदसञ्चारकेन्द्राणि तथा सचीवालयं, टेक्नोपार्क् इन्फोपार्क् इत्यादीनि च केन्द्रीकृत्य प्रथमघट्टे वैद्युतयानानि चालयिष्यन्ति।

Leave a Reply

Your email address will not be published. Required fields are marked *