सार्वजनीनविद्यालयेषु मध्याह्नभोजने फलवर्गाणामपि स्थानम्।

तिरुवनन्तपुरम्- विद्यालयेषु मध्याह्नभोजनेन सह फलवर्गमपि दातुं सर्वकारः निरणयत्। प्रथमतः अष्टमपर्यन्तं कक्ष्यासु अध्ययनं कुर्वन्तः सार्वजनीनविद्यालयस्थाः २८ लक्षं छात्राः अस्य गुणभोक्तारः भविष्यन्ति। एतदर्थं समग्रा योजना सार्वजनीन-शिक्षानिदेशालयेन समर्पिता।

     अधुना विद्यालयेषु ओदनेन सह मुद्गवर्गाः शाकानि च उपयुज्य क्वथितम् ददाति। अपि च प्रतिवारं दिनद्वयं क्षीरम् अण्डं च ददाति। एतदतिरिच्यैव अधुना फलवर्गस्यापि स्थानमलभत। अनेन केरलं छात्रेभ्यः क्षीरं फलं च ददत् राष्ट्रस्थं एकमेव राज्यं भविता।

     सार्वजनीनवि्यालयेषु प्रतिछात्रं सप्ताहे दिनद्वयं दशरूप्यकमूल्यानि फलानि आयोजयेत् इति निर्देशः। फलेषु विषरहितं कदलीफलम्, आम्रं कर्कटी आमलकी च अन्तर्भवन्ति।

Leave a Reply

Your email address will not be published. Required fields are marked *