इरान् राष्ट्रेण सह निरुपाधिकचर्चायै सन्नद्धः – पोम्पियो।

स्विट्सर्लन्ट्-  उपाधिं विना इरानेन सह चर्चायै अमेरिका राष्ट्रं सन्नद्धमिति अमेरिका-राज्यसचिवः मैक् पोम्पियो वर्यः अवदत्। इरानं विरुद्ध्य सम्मर्दकार्यक्रमाः अनुवर्तिष्यन्ते इत्यपि स अवादीत्।

     स्विस् विदेशकार्यमन्त्रिणा इग्नासियो कासिस् वर्येण सह चर्चायै एव पोम्पियो स्विट्सर्लन्ट् देशं प्राप्तः। इरान् सम्बन्धी अमेरिकानैतिकता स्विट्सर्लन्टेन प्रतिनिधीक्रियते। इरानेन सह यु.एस्. राष्ट्रस्य वर्षान् यावत् नयतन्त्रबन्धः नास्ति। अतः उपाधिं विना चर्चां कर्तु् सन्नद्ध इति कासिसेन सह पत्रकारमेलने पोम्पियो अवदत्।

     एतस्मिन्नन्तरे  आरबसागरे वर्तमानाः अमेरिकायाः नाविकपोताः इरानस्य प्रक्षेपास्त्रपरिधौ वर्तते, यदि सङ्घर्षः वर्तेत तर्हि तैलस्य मूल्यं प्रतिबारल् शतडोलर् अतिक्राम्येत इति इरानस्य परमोन्नतनेतुः आयत्तुल्ला खोमेनी वर्यस्य सैनिकोपदेष्टा यह्या रहीं सफावी सूचनामदात्।

Leave a Reply

Your email address will not be published. Required fields are marked *