केन्द्रसर्वकारेण नूतनः शिक्षानयः रूपवत्कृतः।

नवदिल्ली- राष्ट्रे विद्यालयीयशिक्षायां घटनापरं परिवर्तनं सूचयित्वा नूतनविद्याभ्यासनयस्य सङ्कल्पः रूपवत्कृतः। अधुना अनुवर्तमानः १०+२ इति रीतिः ५+ ३+ ३ +४ परिवर्तिष्यते। ऐ.एस्.आर्.ओ. संस्थायाः भूतपूर्वाध्यक्षस्य कस्तूरि रंगन् वर्यस्य नेतृत्वे आयोजिता समितिरेव नूतनः शिक्षानयः कट्वालोचितः।

     कोत्तारी आयोगस्य सूचनानुसारं १९६८ तमे वर्षे १०+२ इति रीतिः आविष्कृता। प्रथमतः द्वादशपर्यन्तं वर्गान् विविधघट्टरूपेण सङ्कल्प्यैव एषा रीतिः आविष्कृता। १-५ प्राथमिकः, ६-८ उन्नतप्राथमिकः, ९-१० माध्यमिकः, ११-१२ उच्चतरमाध्यमिकः इत्येवं रूपेणास्ति अधुनातनः सङ्कल्पः।

     नूतने नये उच्चमाध्यमिकः इति स्तरः न परिगण्यते। ३तः १८ वयःपर्यन्तं छात्राणां प्रगतेः चत्वारः घट्टः सङ्कल्पितः। तदनुसारं पाठ्यपद्धतिरपि सूचिता। वयसां क्रमः एवम्- ३-८, ८-११, ११-१४,  १४-१८इति। अनेन प्राक्-प्राथमिकशिक्षा अपि विद्यालयीयशिक्षायाः भागः भविष्यति।

     ३-८ वयस्कानां कृते प्राक्-प्राथमिकः प्रथमद्वितीयवर्गौ च। एषः प्रथमघट्टः। द्वितीयघट्टे ३,४,५ वर्गाः अन्तर्भवति। एषः पश्चात् प्राथमिकः(Later Primary) इत्युच्यते। ६,७,८ वर्गाः तृतीयघट्टः। एषः उच्चप्राथमिकः(Higher Primary)  इत्युच्यते। ९,१०,११,१२ वर्गान् अन्तर्भाव्य चतुर्थः घट्टः। अयं माध्यमिकः(Secondary) इत्युच्यते।

     माध्यमिकस्तरान् सेमस्टर् रूपेण विभक्तुमपि निर्देशाः सन्ति। प्रतिसेमस्टर् पञ्च वा षट् वा विषयान् चेतुमवकाशः अस्ति। केचन अवश्यविषयाः केचन च ऐच्छिकविषयाः भविष्यन्ति। सर्वेषु वर्गेषु छात्राणाम् इच्छानुसारं संस्कृतं पठितुम् अवसरः अस्ति।

     २०१७ तमे वर्षे एव कस्तूरिरंगन् वर्यस्य नेतृत्वे आयोगः नियुक्तः।

Leave a Reply

Your email address will not be published. Required fields are marked *