मधुरस्मितम् – संस्कृतचलच्चित्रं दृश्यशालां प्राप्स्यति।

तिरुवनन्तपुरम् – सुरेष् गायत्री इति नवागतनिदेशकस्य निदेशने संस्कृतभाषायां प्रथमं बालकानां चलच्चित्रम्- मधुरस्मितम्- नवम्बर् २१ दिनांके दृश्यशालां प्राप्स्यति। सान्स्क्रीट् प्रोडक्शन्स् इति संस्कृताध्यापकानां छात्राणां भाषाकुतुकिनां च संहतेः ध्वजे संरचितस्यास्य चलच्चित्रस्य निर्माणकार्यकर्तारः भवन्ति एन्.के. रामचन्द्रन्, के.जी. रमाबाय्, ई मनोहरन्, बी.आर्. लाली च। निदेशाध्यक्षः निसार् वर्यः, मुख्यसहकारिनिदेशकः रस्सल् नियास् च।
शित्रायाः महत्वं लक्ष्यबोधं च उद्गीयमानस्य अस्य चलच्चित्रस्य कथा पटकथा च अरुण् नेल्लनाट् वर्येण विहिता। सम्भाषणं बिजिला किषोर् कुमार् विदधाति। गानरचयितारः सुरेष् विट्टियरं, डो. कुमार् जे तथा बिजिला किषोर् कुमार् च भवन्ति। संगीत निदेशकः राजेष् नारायणन्। रुग्मा, अय्मुना, अर्पणा श्रीकुमार्, आर्या एं नायर्, अद्वैत् इत्येते छात्राः गायकाः।
नूतनाभिनेतृृन् बालनटान् केन्द्रपात्राणि कृत्वा संरचिते अस्मिन् चलच्चित्रे अञ्जना, नित्या, आर्या, गौरी, तीर्त्था, महालक्ष्मी,आर्द्रा गैरीकृष्ण, वसिष्ठ्, उदय् नारायणन् प्रभृतयः छात्राः अभिनेतारः। छायाग्रहणम्-पी.सी. लाल्, सम्पादकः-जयचन्द्र कृष्ण, परिसंरचना- चित्राञ्जली, संस्कृतभाषायां संरचितं विश्वे प्रथमं बालकानां सामाजिकचलच्चित्रं भवति मधुरस्मितम्। अस्य चित्रस्य आयः प्रलयानन्तरकेरलपुनर्निर्माणाय मुख्यमन्त्रिणः दुरिताश्वासनिधौ अर्पयिष्यति।
दृश्यशालाः- तिरुवनन्तपुरम्- निला, तृशूर्- कैरली, पालक्काट्/चिट्टूर्- श्री।
Leave a Reply