Daily Archives: January 17, 2026
विद्यालयीय संस्कृतोत्सवः सम्पन्नः।
केरले राज्यस्तरीयः विद्यालयीयसंस्कृतोत्सवः तृश्शूर् नगरे सम्पन्नः। 2026 जनुवरि मासस्य 14 दिनाङकात् आरभ्य 18 पर्यन्तं नगर हृदयस्थेषु विविध सभामण्डपेषु उत्सवोयं प्रचालितः । संस्कृतोत्सवे संस्कृतं पठतां छात्राणां विविधाः कलास्पर्धाः समायोजिताश्च । विजयिभ्यः पतकानि धनपुरस्काराश्च दीयन्ते।
केरलसर्वकारस्य शिक्षा विभागःएव उत्सवस्यस्य सङ्घाटकः । तदनुबन्धत्वेन संस्कृतसङ्गोष्ठी पण्डितसमादरणं च प्रचालितम्। कार्यक्रमस्यास्य उद्घाटनं केरलीय विद्याभ्यासमन्त्रिणा . श्रीमता वि . शिवन् कुट्टीवर्येण कृतम्।राजस्व- भवननिर्माण मन्त्री श्री के राजन् आध्यक्ष्यमावहत् । श्री . टि आर् .हिरण् मुख्याथिति रूपेण सन्निहित : आसीत् । श्री आर .एस् षिबु(अतिरिक्तशिक्षानिदेशकः) हारिस् टि पीश्री सनल् चन्द्रः च भाषणमकुर्वन्।
तदनुबन्धत्वेन कृतं संस्कृत पण्डितसमादरणं सन्तोषप्रदमेव । संस्कृतमण्डले कृतश्रमाः अध्यापकाः डाः एम् वी नटेशः डो .के के षैन श्रीमती शैलजा श्री पी वि सन्तोष् कुमार् श्री पि एन् मधुसूदनन् श्री प्रदीप् कुमार् रसना पत्रिकायाः मुख्य प्रसाधकः श्री के एम् जनादन : च आदृताः ।
संस्कृतभाषायाः अक्षर शास्त्रम् इत्यासीत् सङ्गोष्ठी विषयः। श्रीशङ्कराचार्य संस्कृत सर्वकलाशालायाः पय्यन्नूर् परिसरे निदेशकचरः डो ई श्रीधरन् विषयस्य अवतारणं कृतवान् । श्री सुरेष्कुमार् सङ्गोष्ठ्याः क्रमीकारकः आसीत्। सङ्गोष्ठी दिनस्य आरम्भे सङ्गमग्राममाधवस्य जन्मगृहात् समारब्धं दीपशिखाप्रयाणम् नगरं प्राप्तम् । ततः चतुषष्षष्टिः संख्याकैः अध्यापकैः आलपितं स्वागतगानं असुलभसङ्गीतसुधाभ रञ्चासीत्।
श्रीमती सिन्धू वार्यर् वर्यया प्रार्थना कृता । संस्कृतोत्सवस्य समायोजकः डो विवेक् एम वी स्वागतम् तथा श्रीमती प्रभा वी कृतज्ञतां च व्याहृतौ । राज्यस्तरीयसङ्गोष्ठी सभायां राज्यस्य नानाप्रान्तेभ्यः सहस्र परिमिताः संस्कृताध्यापकाः संस्कृतानुरागिणश्च सन्निहिताः आसन् ।













