Monthly Archives: December 2025
नववर्ष शुभाशयाः
नववर्ष शुभाशयाः
नूतनं हि क्रैस्तवीयं वर्षमागतम्
चादरेण स्वागतं व्याहराम भोः ।
जीवनं तु तोषदं सर्वसौख्यदं
शान्तिशक्तिदायकं नित्यहर्षदम् ।।
( . . .नूतनं हि क्रैस्तवीयं . . )
लसतु मानसेषु ते संस्कृते रतिः
भवतु सन्मुखेषु ते भाषणे मतिः
जयतु कर्म तावकं धर्मसंयुतं
हरतु भीति मिश्वरो लोकनायक: ।।
( नूतनं हि क्रैस्तवीयं . . )
संस्कृतं तत् भवतु ते शक्तिरुज्वला
संस्कृतेन भवतु ते भाषणं वरम् ।
संस्कृताय भवतु ते कर्मणः फलम्
संस्कृतेषु स्निह्यतात् तावकं मनः ।।
(नूतनं हि क्रैस्तवीयं . .)
नास्तु ते कदापि भेदभावना
नास्तु कलुषतादिदोषचिन्तनम्
नास्तु सूनृतात्तु भेदचिन्तनं
मास्तु ते कदापि दुष्टसङ्गति : ॥
( नूतनं हि क्रैस्तवीयं . .)
नव्यचिन्ता मानसेषु भासताञ्चिरं
त्यागभाव : तावकेषु वर्धताञ्चिरम् ।
मानवस्य सेवया शेभतां मनः
भवतु वर्ष एव ते सुखद :शीतलः॥
( नूतनं हि क्रैस्तवीयं . . )
Vijayan V Pattambi
सत्यस्यैव जयो ध्रुवम् (भागः ४२३) 27-12-2025
EPISODE – 423
नूतना समस्या –
“सत्यस्यैव जयो ध्रुवम्”
प्रथमस्थानम्
“इतिहासपुराणेषु
विद्यन्ते धार्मिकाः कथाः ।
सारस्तासां तु सर्वासां
सत्यस्यैव जयो ध्रुवम्” ॥
Sridevi
“अभिनन्दनानि”
माता प्रत्यक्षदेवता ॥
जनयित्री प्रसूर्माता
जननी जन्मदा तथा।
अम्बा मातेति नामानि
मातृसम्बन्धकानि वै ॥
यथा सर्वंसहा भूमिः
यथोन्नतहिमाचलम् ।
तथा माता महाधन्या
विशाला चोन्नता वरा ॥
माता तु सर्वथा वन्द्या
माता हि करुणापरा ।
समेषां जीवजालानां
माता तु देवता परा ॥
नाशिका सर्वदुःखानां
सर्वसौख्यप्रदायिनी ।
सदा स्नेहमयी काचित्
गृहदीपसमा सदा ॥
माता पिता गुरुर्दैवं
इत्यस्ति महती प्रथा ।
प्रथमोक्ता प्रथायुक्ता
जननी मम देवता ॥
कारुण्यस्य च त्यागस्य
मूर्तीभूता तपस्विनी ।
सर्वेषां जीवजालानां
माता प्रत्यक्षदेवता ॥
वहनात् गर्भभारस्य
क्षीणा वमनभीषणा ।
सुखेन शयना चापि
सहमाना च वेदनाम् ॥
या तु पाययति स्तन्यं
लालयति तथा पुनः ।
स्नापनं स्वापनं तस्या :
तोषवर्धनहेतुकम् ॥
सर्जने तु महापीडां
वर्धने क्लेशजीवनम् ।
चिन्ताक्लेशस्तु वार्धक्ये
स्वपुत्रोन्नतिहेतुकः ॥
या जीवति परार्थाय
परसौख्यं हि कांक्षते ।
आद्याक्षरप्रदानेन
गुरुणां हि गुरुश्च सा ॥
विना स्वापं विना खेदं
विना स्नानविलेपनम् ।
यया हि जीवनं नीता
पुत्रपौत्रहिताय सा ॥
इहामुत्र तु या पुण्या
भक्त्या हि स्मर्यते सदा ।
आजीवं स्मरणीया मे
देवतां मातरं सदा॥
Vijayan V Pattambi
प्रालेयं सौख्यदायकम् (भागः ४२२) 20-12-2025
EPISODE – 422
नूतना समस्या –
“प्रालेयं सौख्यदायकम्”
प्रथमस्थानम्
“इच्छन्ति जीविनः सर्वे
सुखमेव निरन्तरम् ।
अकाले चास्तु वा काले
प्रालेयं सौख्यदायकम्” ॥
Sridevi
“अभिनन्दनानि”
ओक्स्फोर्ड् विश्वविद्यालये संस्कृताध्ययनाय कृतहस्ता मोक्षा।
कोच्ची- संस्कृताध्ययनेन किं प्रयोजनं, तदधीते कियत्पर्यन्तं प्राप्तुं शक्यते इत्यादीनां प्रश्नानाम् उत्तरं भवति अष्टादश वयस्का मोक्षा आर् रावु। ब्रिट्टनस्थे ओक्फोर्ड् नामके विश्वविद्यालये संस्कृताध्ययनार्थं प्रविशति मोक्षा। तत्र पौरस्त्य-मध्यपौरस्त्य अधीतिविभागे संस्कृतभाषायां बिरुदार्थमेव प्रवेशः। सार्धद्विकोटि रूप्यकाणां छात्रवृत्तिराशिः तदर्थं सा प्राप्तवती।
कोच्ची अमृता दान्तिककलाशालायाः उपप्रांशुपालः डा- राकेश् सुरेशः तथा कोच्ची अन्ताराष्ट्रविद्यालये अध्यापिका लक्ष्मी च माक्षायाः पितरौ। उच्चतरविद्यालयं यावत् सा एलमक्करा भावन्स् विद्यामन्दिरे छात्रा आसीत्।
संस्कृतभाषां प्रति आभिमुख्यमासीत् इत्यतः विद्यालयीयाध्ययनादूर्ध्वं वाचनं तया स्वीकृतम्। नवमवर्गादारभ्य ओक्स्फोर्ड् विश्वविद्यालये पिपठिषा तस्याम् अङ्कुरिता। अतः विद्यालये एकादश द्वादशवर्गयोःअध्ययनावसरे विशेषानुमत्या षष्ठविषयत्वेन संस्कृतमपि अध्यैष्ठ।
पाठ्यसरण्याः आरम्भस्य एकवर्षात् पूर्वं तत्र बिरुदप्रवेशनाय प्रक्रमः प्रारभ्यते। प्रतिवर्षं ओक्टोबर् १५ पर्यन्तमेव अपेक्षासमयः। अपेक्षया साकं तत्तद्विषये तात्पर्यं मापयितुं ४००० पदपरिमितं लेखमपि प्रेषणीयं वर्तते। विद्यालयाधिकारिणां साक्ष्यपत्रमपि आवश्यकम्।
एतत् सर्वं स्वायत्तीकृत्यैव मोक्षा ओक्स्फोर्ड् विश्वविद्यालये अध्ययनार्थं सज्जा अभवत्।
मतदानं महत्तरम् (भागः ४२१) – 13-12-2025
EPISODE – 421
नूतना समस्या –
“मतदानं महत्तरम्”
प्रथमस्थानम्
“പ്രജാക്ഷേമായ സൗഖ്യായ
പ്രജാഭിരേവ നിർമിതം
തദർഥം ശാസനം കർത്തും
മതദാനം മഹത്തരം“
Narayanan N
“अभिनन्दनानि”












