Daily Archives: November 24, 2024
शिवानन्दलहरी कैरलीभाषया सव्याख्यानं विवर्तिता।
पट्टं – क्रिस्तुः कृष्णः शिवः नबी च ज्ञानिनां एकस्यैव सत्यस्य विविधाः भावाः एवेति उद्घोषयति कोच्चुत्रेस्या महाभागा। स बोध एव कोच्चुत्रेस्यां शिवानन्दलहरीं प्रति अनयत्। शङ्कराचार्येण विरचिता शिवानन्दलहरी इति संस्कृतकृतिः तया कैरलीभाषया सव्याख्यानं विवर्तिता। एकवर्षपरिमितस्य तपसः फलत्वेन कृतिरियं गतसप्ताहे प्रकाशिता।
पट्टं सर्वकारीणोच्चतरविद्यालये प्रांशुपाला आसीत् बहुभाषानिष्णाता कोच्चुत्रेस्या। संस्कृतम् आङ्गलं मलयाळम् इत्यादिषु भाषासु सा स्नातकोत्तरबिरुदं सम्पादितवती। तत्रापि संस्कृतमेव प्रिया भाषा। भावस्थिराणि इति आख्यायिका नारायणीयस्य व्याख्यानं च पूर्णकल्पं भवति, अचिरादेव प्रकाशयिष्यति। क्रैस्तवाचारं परिपालयन्त्याः कोच्चुत्रेस्यायाः धर्मनिरपेक्षाम् आत्मीययात्रां बान्धवाः पुरोहिताश्च प्रोत्साहयन्तः वर्तन्ते।