Category Archives: News Updates
पचनवायोः वित्तानुकूल्यं स्थगयति।
नवदिल्ली – भारते पचनवायुकोशानां कृते दीयमानं वित्तानुकूल्यं आगामि मार्च् मासादारभ्य पूर्णतया समापयितुं केन्द्रसर्वकारेण निर्णीतम्। एतदाधारीकृत्य प्रतिमासं चत्वारि रूप्यकाणि इति क्रमेण आनुकूल्यार्हाणाम् अनिलकोशानां संवर्धयितुं तैलसंस्थाः निर्दिष्टाः इति केन्द्र मृत्तैलविभागमन्त्री धर्मेन्द्रप्रधानः लोकसभां विज्ञापितवान्।
आराष्ट्रं १८.११ कोटि उपभोक्तारः पचनवायुकोशानाम् आनुकूल्यं स्वीकुर्वन्तः सन्ति। दत्तानुकूल्यानां अनिलकोशानां प्रतिमासं रूप्यकद्वयमितिक्रमेण वर्धयितुं २०१६ जूलाई मासादारभ्य अनुमतिः दत्ता आसीत्।तदेव अधुना द्विगुणीकृतम्।
पि यु चित्रा विश्वस्पर्धात: बहिष्कृता।
कोच्ची – विविश्वकुशलस्पर्धायां भागंकर्तुं चित्रायाः अभिलाषः विनष्टः। केरलस्य कायिकतारः भवति एषा। विश्वस्तरीय स्पर्धायां भागं स्वीकर्तुं चित्रायै अनुज्ञालब्ध्यर्थं भारत-कायिक क्रीडादलेन दत्तम् आवेदनं आन्ताराष्ट्र क्रीडासंधेन निरस्तम्। भुवनेश्वरे आयोजिते एष्यायाः कुशलस्पर्धायां सुवर्णपतकेन जिता आसीत् चित्रा। मण्डलस्थस्य विजयिभ्यः साक्षात् प्रवेशः इत्यासीत् मानदण्डः। किन्तु चित्रायाः प्रवेशविषये मानदण्डस्य पालनं नासीत् इति इदानीन्तनसमस्या। उच्चन्यायालयस्य आदेशः चित्रयै अनुकूलः आसीत्। किन्तु कालः अतीतः इत्यनेन स्पर्धायां प्रवेश:
नवास् षरीफः स्थानभ्रष्टः।
इस्लामबाद्:
पाकिस्थानस्य प्रधानमन्त्री नवास षरीफः स्वस्थानं त्यक्तवान्।
षरीफस्य
निजीयार्थिकसम्पादनमधिकृत्य पानमा सङ्घस्य विज्ञापनमाधारीकृत्य पाकिस्थानीयसर्वोच्चन्यायालयेन सः अयोग्य उद्घोषितः इत्येव स्थानत्यागस्य निदानम्।
१९९० आरब्धसंवत्सरेषु प्रधानमन्त्रिस्थाने उपविष्टे षरीफः स्वपरिवारश्च विदेशराष्ट्रेषु अनभिमतान् धनराशीन् सम्पादितवान्। तत्तु २०१३ तमे निर्वाचने नामनिर्देशपत्रिकया सह समर्पितायाम् अर्थिकविवरणपट्टिकायां न प्रकाशितम् इत्यासीत् आक्षेपः।













