नवास् षरीफः स्थानभ्रष्टः।

इस्लामबाद्:

पाकिस्थानस्य प्रधानमन्त्री नवास षरीफः स्वस्थानं त्यक्तवान्।

षरीफस्य निजीयार्थिकसम्पादनमधिकृत्य  पानमा सङ्घस्य विज्ञापनमाधारीकृत्य पाकिस्थानीयसर्वोच्चन्यायालयेन सः अयोग्य उद्घोषितः इत्येव स्थानत्यागस्य निदानम्।
    १९९० आरब्धसंवत्सरेषु प्रधानमन्त्रिस्थाने उपविष्टे षरीफः स्वपरिवारश्च विदेशराष्ट्रेषु अनभिमतान् धनराशीन् सम्पादितवान्। तत्तु २०१३ तमे निर्वाचने नामनिर्देशपत्रिकया सह समर्पितायाम् अर्थिकविवरणपट्टिकायां न प्रकाशितम्  इत्यासीत् आक्षेपः।

Leave a Reply

Your email address will not be published. Required fields are marked *