Category Archives: News Updates
उपराष्ट्रपतिः दशवर्षाणि प्रपूरयति।
त्रिराष्ट्रीय क्रिक्केट् क्रीडायां भारतस्य विजयः।
ब्लू वेयिल् – विनाशकारी।
तिरुवनन्तपुरम् – ब्लू-वेयिल् इति
वेब् क्रीडा अत्यन्तं विनाशकारीति केरलस्य आरक्षकदलाध्यक्षः अवदत्। तत्रान्तरे इमां क्रीडां निरोधयितुं केन्द्रीय-सर्वकारं प्रति अभ्यर्थयिष्येति मुख्यमन्त्रिणा श्री पिणरायि विजयेन प्रोक्तम्। अनया क्रीडया अनेकाः तरुणाः इतपर्यन्तं आत्माहुतिं कृतवन्तः इति कारणतः अधिकारिणां सत्वरश्रद्धा अस्मिन् विषये आवश्यकी भवति।
संस्कृतसप्ताहः आयोज्यते।
यत्र नार्यस्तु पूज्यन्ते…।
कोषिक्कोट् – समाजे स्त्रीणां तुल्यपरिगणना आवश्यकी। वनिताः प्रति बहुमानं प्रदर्शयितुञ्च पुरुषाः सन्मनोभावाः भवितव्याः इति युव-ऐ.पि.एस् अधिकारिणा मॆरिन् जोसफेन प्रोक्तम्।
देशस्य परमो धर्मः सहिष्णुतैव भवितव्यम्।
उपराष्ट्रपतेः शपथवचनं शुक्रवासरे।
नीत्यायोगस्य उपाध्यक्षः अर्थशास्त्री राजीवकुमारः।
चीना-भारतीयम्।
नवदिल्ली – भारतेन प्रोक्तं यत् चीनेन सह डोकलामक्षेत्रे प्रवर्तमान गतिरोधः सम्भाषणमाध्यमेन उपाकरिष्यते अत च युद्धं
नैवास्ति समस्यायाः समाधानम्। गतदिने राज्यसभायां परिचर्चावधौ लघुप्रश्नमेकम् उत्तरत्या विदेशमन्त्रिणा सुषमास्वराजेन प्रोक्तं यत् भारत-चीनासीम्नि शान्तिसन्धारणं द्विपाक्षिकसम्बन्धानां विकासार्थम् आवश्यकमस्ति।
विद्यालयेषु इतः परं असमर्थानामवतीर्णता।
नवदिल्ली – विद्यालयेषु अष्टमकक्ष्यापर्यन्तं प्रवर्तमानायाःछात्राणाम् उत्तीर्णता-अनवरोधनीतेः अपसारणं केन्द्रीयमन्त्रिपरिषदा निर्णीतम्। अनया रीत्या विद्यालयेषु इतःपर्यन्तं पठनविमुखानां छात्राणामपि उत्तीर्णता सुनिश्चितासीत्। अयं निर्णयः विद्यालयपठनान्तरीक्षं सजीवं कर्तुं उपकारकं भविष्यतीति अभिज्ञाः वदन्ति।


















