सर्वे वाच्छन्ति सम्पदम् – 23-03-2019

 

नूतना समस्या –

“सर्वे वाच्छन्ति सम्पदम्”

ഒന്നാംസ്ഥാനം

विद्यायाः रक्षका राज्ये
चातुरलायचालकाः।
राजनैतिकसङ्घाश्च
सर्वे वाञ्चन्ति सम्पदम्।।

Ramachandran

“അഭിനന്ദനങ്ങള്‍”

 

12 Responses to सर्वे वाच्छन्ति सम्पदम् – 23-03-2019

  1. Narayanan .N says:

    ഉഭൗ “വാഞ്ഛന്തി ” “വാഞ്ചന്ത്യ”
    പൂരണേഷ്വത്ര മുദ്രിതൗ
    അശ്രദ്ധയാ പ്രയുക്താ: കേ?
    സർവ്വേ വാഞ്ഛന്തി സമ്പദം

  2. अमृता सि.जे says:

    पितृवत् रक्षकाः देवाः
    मातृवत् वत्सलात्मजाः।
    शिशुवत् भासिताश्चापि
    सर्वे वाञ्चन्ति सम्पदम्।।

  3. अनन्तु पि.एस् says:

    नेता रक्षिबलानान्तु
    सात्विकाकारभूसुरः।
    भृशं कुटिलचित्ताश्च
    सर्वे वाञ्चन्ति सम्पदम्।।

  4. श्रीनाथ् रायमङ्गलम्। says:

    कामिनी काञ्चनं चापि
    विकारौ सम्पदः श्रृणु।
    मानुषा लब्धजन्मानः
    सर्वे वाञ्चन्ति सम्पदम्।।

  5. ज्योत्स्ना के एस् says:

    विविधानि च यानानि
    स्थानानि विस्तृतानि च।
    सम्पदश्च स्वरूपं तत्
    सर्वे वाञ्चन्ति सम्पदम्।।

  6. रामचन्द्रः। says:

    ഒന്നാംസ്ഥാനം

    विद्यायाः रक्षका राज्ये
    चातुरलायचालकाः।
    राजनैतिकसङ्घाश्च
    सर्वे वाञ्चन्ति सम्पदम्।।

  7. विजयन् वि. पट्टाम्बि says:

    ब्राह्मणो यदि वा शूद्रः
    ब्रह्मचारी वराङ्गना।
    किमुत सर्वसम्पन्नांः
    सर्वे वाञ्चन्ति सम्पदम्।।

  8. रोसिली फ्रान्सिस्। says:

    മൂന്നാംസ്ഥാനം

    नश्यन्ति मृत्युना कोfत्र
    कुर्वते गणिकाश्च किम्।
    नात्र भ्रान्तचित्तो भूः
    सर्वे वाञ्चन्ति सम्पदम्।।

  9. BHASKARAN N K says:

    രണ്ടാംസ്ഥാനം

    വിജ്ഞാനസ്യാർജനം പുണ്യം
    ധനാർജനേന കിം ഫലം?
    അനാലോച്യ ജനാ: കിന്തു
    സർവേ വാഞ്ഛന്തി സമ്പദം.

  10. BHASKARAN N K says:

    I
    ആഡംബരഭ്രമോ ലോകേ
    സർവത്രാസ്തി ന സംശയ:
    വിസ്മൃത്യ സ്വഗുണാൻ സർവാൻ
    സർവേ വാഞ്ഛന്തി സമ്പദം

  11. नारायणन् नम्पूतिरिः। says:

    राष्ट्रस्य भूतिलाभाय
    सज्जनानां हिताय च।
    राष्ट्रस्य शासकाः वृद्धाः
    सर्वे वाञ्चन्ति सम्पदम्।।

  12. Narayanan .N says:

    മതദാനായ സർവത്ര
    നിതരാം ജാഗ്രതാ സദാ
    അധികാരേച്ഛയാ കേചിത്
    സർവ്വേ വാഞ്ഛന്തി സമ്പദം

Leave a Reply

Your email address will not be published. Required fields are marked *