भवन्तु छात्राः पठनेषु तृप्ताः। – वि. विजयन् पट्टाम्बि।

विद्यालयीयो नववर्ष एषः

समागतो हर्षभरेण वेगात्।

सुखेन सर्वे प्रविशन्तु तानि

विद्यागृहाणि बहुसुन्दराणि।।

 

पठन्तु ते संस्कृतपाठजालं

धर्माश्रितं साधुजनैश्च पाठ्यम्।

वाणी नवेयं तवमित्रतुल्या

सहायिका स्यात् पठनेषु नित्यम्।।

 

इदं च aap संस्कृतबन्धुतुल्यं

सुनिर्मितं संगमग्राममुख्यैः।

कुर्वत् सुपाठ्यं सुकरं च सर्वं

प्रशोभते सर्वकरेषु नित्यम्।।

 

पठन्तु बालाः ललितां स्वभाषां

कथाप्रपञ्चेन विभूषितां ताम्।

सुभाषितानां मधुना च मत्ताः

भवन्तु छात्राः  पठनेषु तृप्ताः।।

3 Responses to भवन्तु छात्राः पठनेषु तृप्ताः। – वि. विजयन् पट्टाम्बि।

  1. nithinkylas says:

    uthamam asthi

  2. DEVIPRASADAM.P R,GHSS CHALAKUDY says:

    sundaram… lalitham…

  3. Vinod says:

    ,,,👏👏👏

Leave a Reply

Your email address will not be published. Required fields are marked *