राज्यस्तरीयः विद्यालयशास्त्रोत्सवः कोषिक्कोट् जनपदे।६८०२ छात्राः परीक्षणेन सह आगमिष्यन्ति।

कोषिक्कोट् – केरलेषु विद्यालयीयशास्त्रोत्सवः नवम्बर् २३तः २६ पर्यन्तं कोषिक्कोट् नगरे प्रचलिष्यति।२१७ खण्डेषु ६८०२ प्रत्याशिनः प्रतियोगितायां भागभाजः भविष्यन्ति। चतुर्दिवसीयः अयमुत्सवः, तदर्थं ९ वेदिकाः सज्जीकृताः। शास्त्र-गणितशास्त्र-समाजशास्त्र-कर्मकुशलता-सूचनासाङ्केतिकविद्या प्रतियोगिताः अतिरिच्य विशिष्टविद्यालयीयछात्राणां कृते ३७ खण्डेषु पृथक् स्पर्धा, वोक्केषणल् एक्स्पो इत्यादीन्यपि अत्रैव आयोजयिष्यति।

पस्पर्धयिषूणां कृते आवासव्यवस्था भोजनं यातायातव्यवस्था च सङ्घाटकैरेव आयोजयिष्यन्ते।

One Response to राज्यस्तरीयः विद्यालयशास्त्रोत्सवः कोषिक्कोट् जनपदे।६८०२ छात्राः परीक्षणेन सह आगमिष्यन्ति।

  1. :ഉല്ലാസ് സംസ്കൃതി says:

    निष्कामकर्मकः कश्चित्
    निस्वार्थ तत्परो नरः।।
    परदुखमपाकर्तुम्
    रक्ष रक्षेति रोदिति।।

Leave a Reply

Your email address will not be published. Required fields are marked *