४८ तमस्य गोवा चलचित्रोत्सवस्य प्रौढगम्भीरः आरम्भः।

पणजी. – गोवा चलचित्रोत्सवाय दीपं प्राज्वालयत्। गोवा मुख्यमन्त्री मनोहर् परीखर्, केन्द्रमन्त्री स्मृती इरानी प्रभृतयः भागम् अभजन्। बोलीवुड् तारं षा रुक् खान् विशिष्टातिथिः आसीत्। प्रसिद्धस्य इरानियन् निदेशकस्य बियोण्ट् द क्लौट् आख्यं चलचित्रम् आसीत् उद्घाटनचित्रम्। सम्पूर्णे सदसि एव चित्रं प्रदर्शितम्। चलचित्रस्य नायकः इषान् घट्टार् नायिका मालविका मोहनश्च उद्घाटनसमारोहे भागम् अभजताम्।

Leave a Reply

Your email address will not be published. Required fields are marked *