सर्वं जानाति हीश्वरः (भागः 462) 26-09-2026

EPISODE – 462

नूतना समस्या –

“सर्वं जानाति हीश्वरः”

प्रथमस्थानम्

“जानीते ब्राह्मणो मन्त्रं
नेता तु तन्त्रसंग्रहम् ।
कन्या युवकचित्तानि
सर्वं जानाति हीश्वर:”||

Sridevi

14 Responses to सर्वं जानाति हीश्वरः (भागः 462) 26-09-2026

  1. Niranjana PV says:

    तस्मान्नित्यं शुभं चर
    गुरोर्वचनमाचर |
    सत्कर्म कुरु सर्वदा
    सर्वं जानाति हीश्वरः||

  2. Niranjana. Vinod says:

    तस्मान्नित्यं शुभं चर
    गुरोर्वचनमाचर |
    सत्कर्म कुरु सर्वदा
    सर्वं जानाति हीश्वरः||

  3. Vijayan V Pattambi says:

    अत्युष्णहेतुभूतं तत्
    वर्षाभावस्य कारणम् ।
    जनानां क्लेशमूलञ्च
    सर्वं जानाति हीश्वर :||

  4. Aparna says:

    द्वितीयस्थानम्

    ഈശസ്തിഷ്ഠതി ഹൃദ്ദേശേ
    കൃഷ്‌ണ: പ്രോവാച ചാർജുനം
    വ്യാപ്നോതി സ തു സർവത്ര
    സർവം ജാനാതി ഹീശ്വരഃ

  5. Narayanan Namboothiri says:

    अलीकं भाषते कश्चित्
    कश्चित् सङ्कल्पमेव च
    काचन दिव्यकार्याणि
    सर्वं जानाति हीश्वर :||

  6. Radhakrishnan says:

    മനസാ വചസാ നിത്യം
    കായേന ച കർമണാ
    ക്രിയതാം സുകൃതം സാധോ !
    സർവം ജാനാതി ഹീശ്വരഃ

  7. Sridevi says:

    प्रथमस्थानम्

    जानीते ब्राह्मणो मन्त्रं
    नेता तु तन्त्रसंग्रहम् ।
    कन्या युवकचित्तानि
    सर्वं जानाति हीश्वर :||

  8. Bhaskaran N K says:

    ചിത്തേഽസ്തീ ശ്വരശ്ചേതീതി
    ഗീതാകാര ഉവാച ഹാ!
    വ്യാപരൻ സ തു സർവത്ര
    സർവം ജാനാതി ഹീശ്വരഃ

  9. Atheetha says:

    तृतीयस्थानम्

    മനസാപി ന കുർവീഥാഃ
    പാപം നൈവ കദാചന
    സർവവ്യാപീ ച സോഽയം ഹാ!
    സർവം ജാനാതി ഹീശ്വരഃ

  10. Abhinav .S. says:

    यदा करोति पापं तु
    चित्ते चिन्तयतु सदा
    ईश्वर: अस्ति पश्यन् तम्
    सवॆं जानाति हीश्वर: ।।

  11. Sayujya Suresh says:

    दुखनिवारण: देव:
    आश्वासप्रद: हीश्वर:
    सन्तोषदायक: देव:
    सवॆं जानाति हीश्वर:

  12. Ramachandran says:

    मुखे तु मन्दहासं तत्
    दुष्टाश्चिन्तास्तु मानसे ।
    तासां भावहावादि
    सर्वं जानाति हीश्वर :||

  13. Rosily Francis says:

    जानाति मानवो भूतं
    दैवज्ञो भाविजीवितम् ।
    भाविन्तु देवताभिश्च
    सर्वं जानाति हीश्वर :||

  14. Parthasaradhi says:

    न कश्चित् सर्ववित् लोके
    नरो भवति सर्वदा ।
    अल्पज्ञोऽयं पुमान् विद्धि
    सर्वं जानाति हीश्वरः ॥

Leave a Reply

Your email address will not be published. Required fields are marked *