शृणु रामकथां सखे (भागः 454) 01-08-2026

EPISODE – 454

नूतना समस्या –

“शृणु रामकथां सखे”

प्रथमस्थानम्

“सर्वैरप्यनुसर्तव्यं
भूमौ कर्मफलं नरैः ।
स्मारयन्तीं सदा रम्यां
शृणु रामकथां सखे” ॥

Ramachandran

“अभिनन्दनानि”

 

7 Responses to शृणु रामकथां सखे (भागः 454) 01-08-2026

  1. Ramachandran says:

    प्रथमस्थानम्

    सर्वैरप्यनुसर्तव्यं
    भूमौ कर्मफलं नरैः ।
    स्मारयन्तीं सदा रम्यां
    शृणु रामकथां सखे ॥

  2. Narayanan Namboothiri says:

    भवनेषु च सर्वेषु
    तथा देवालयेषु च ।
    मासेsस्मिन् पठ्यमानां तां
    शृणु रामकथां सखे ॥

  3. Bhaskaran N K says:

    തൃതീയസ്ഥാനം

    ശ്രീരാമോ നാമ രാജാസീത്
    വിശ്വേഽസ്മിൻ വിശ്രുതഃ ഖലു
    ചിത്താഹ്ലാദകരീം രമ്യാം
    ശ്രുണു രാമകഥാം സഖേ! .

  4. Sankaranarayanan says:

    भवदुःखनिरासाय
    चित्तसौख्यैकलब्धये ।
    वल्मीकिरचितां धन्यां
    शृणु रामकथां सखे ॥

  5. Sridevi says:

    आदिकाव्यप्रथाभूतां
    रामनुजपुरस्कृताम् ।
    सरसां सारसम्पन्नां
    शृणु रामकथां सखे ॥

  6. Radhakrishnan says:

    द्वितीयस्थानम्

    ആദൗ വാല്മീകിനാ പ്രോക്താം
    കവിഭിർബഹുഭിർപുനഃ
    സത്യധർമാഭിഭൂയിഷ്ഠാം
    ശ്രുണു രാമകഥാം സഖേ! .

  7. Vijayan V Pattambi says:

    भ्रातृस्नेहं दयाशीलं
    शैर्यं शासनपाटवम् ।
    सर्वं हृदि प्रतिष्ठातुं
    शृणु रामकथां सखे ॥

Leave a Reply

Your email address will not be published. Required fields are marked *