विद्या सर्वार्थसाधिका (भागः ३६८) 07-12-2024

EPISODE – 368

नूतना समस्या –

“विद्या सर्वार्थसाधिका”

प्रथमस्थानम्

“विद्या नरस्य सौन्दर्यं
विद्या हि परमं धनम् ।
विद्यया लभते सर्वं
विद्या सर्वार्थसाधिका” ॥

Vijayan V Pattambi

“अभिनन्दनानि”

 

30 Responses to विद्या सर्वार्थसाधिका (भागः ३६८) 07-12-2024

  1. Narayanan Namboothiri says:

    आर्जनीया हि क्लेशेन
    विद्या या चाविनाशिका ।
    दानात्तु वर्धते नित्यं
    विद्या सर्वार्थसाधिका ॥

  2. Ramachandran says:

    धनमेव बलं चेति
    चिन्तयन्ति खलाः भुवि।
    न धनं धनमित्याहु:
    विद्या सर्वार्थसाधिका ॥

  3. Atheetha says:

    വിദ്യാഹീനാസ്തു വിദ്വദ്ഭി:
    വിഖ്യാതോ പശുഭിസ്സമഃ
    വിദ്യാമാർജയ ശീഘ്രം ഹാ!
    വിദ്യാ സർവാർഥസാധികാ.

  4. Radhakrishnan says:

    द्वितीयस्थानम्

    വിദ്യാ കരഗതാ ചേത്തു
    വിത്തം ഹി വിഫലം ഖലു
    മുർഖായതേ ഹ്യവിദ്യോ ഹാ!
    വിദ്യാ സർവാർഥസാധികാ.

  5. Bhaskaran N K says:

    तृतीयस्थानम्

    ലഭതേ ഗുണസങ്ഘാതം
    യയാ ച വിദ്യയാ സദാ
    തയൈവ ജീവിതം ധന്യം
    വിദ്യാ സർവാർഥസാധികാ.

  6. Vivek says:

    तृतीयस्थानम्

    दानेन क्षीयते नापि
    चोरेणापि न हार्यते ।
    प्रथिता सर्वलोकेषु
    विद्या सर्वार्थसाधिका ॥

  7. Rahul O S says:

    मूढानां पण्डितानां च
    मन्त्र एकोऽत्र कथ्यते |
    सरला सुन्दरा चेति
    विद्या सर्वर्थसाधिका ||

  8. Vijayan V Pattambi says:

    प्रथमस्थानम्

    विद्या नरस्य सौन्दर्यं
    विद्या हि परमं धनम् ।
    विद्यया लभते सर्वं
    विद्या सर्वार्थसाधिका ॥

  9. Sridevi says:

    अक्षरं चायुधश्चापि
    विद्यायाः भेदमस्ति भोः ।
    जीविताय सदा योग्या
    विद्या सर्वार्थसाधिका ॥

Leave a Reply

Your email address will not be published. Required fields are marked *