पाठ्यचर्यानवीकरणचर्चायां ४८ लक्षं छात्राः तेषां रक्षितारश्च भागं गृहीष्यन्ति।

तिरुवनन्तपुरम्- पाठ्यचर्यानवीकरणविषये विद्यालयेषु छात्राणां चर्चा समारब्धा। अस्याः राज्यस्तरीयम् उद्घाटनं भरतन्नूर् उच्चतरविद्यालये शिक्षामन्त्रिणा वि शिवन् कुट्टिवर्येण निर्व्यूढम्।
राज्ये ४८ लक्षं छात्राः तेषां रक्षितारश्च पाठ्यपद्धतिनवीकरणे भागभाजः भविष्यन्ति। एषा प्रक्रिया विश्वे प्रथमतया अत्रैव सम्पद्यते इति मन्त्रिणा निगदितम्।
छात्राणाम् अभिप्रायाः विद्यालयतले बि आर् सि तले च क्रोडीकृत्य राज्य-शैक्षिकानुसन्धान-प्रशिक्षणपरिषदे समर्पयिष्यते इत्यपि तेन निगदितम्।
Leave a Reply