आरोग्यकेन्द्राणां प्रवर्तनकालः सायं षट्वादनपर्यन्तं परिवर्तितम्।

तिरुवनन्तपुरम्- कोविड्-१९ रोगबाधायाः पश्चात्तले केरलेषु आरोग्यकेन्द्राणां प्रवर्तनसमयः सर्वकारेण परिषेकृतः। इतः परं सायं षट्वादनपर्यन्तं आरेग्यकेन्द्राणि प्रवर्तननिरतानि भवेयुः। अद्य मिलितस्य मन्त्रिमण्डलाधिवेशने एवायं निर्णयः स्वीकृतः।

विरामार्थं गताः वैद्याः झटिति कर्मणि समायोजनार्थं निर्दिष्टाः। तेषां विरामः निरस्य अवश्यसेवनार्थं तान् नियोक्ष्यति। विरामे स्थिताः भिषग्वराः एवं निर्दिष्टाः।

Leave a Reply

Your email address will not be published. Required fields are marked *