गुरुवायुपुरमन्दिरदर्शनार्थं प्रधानमन्त्री नरेन्द्रमोदीवर्यः केरलानागच्छत्।

कोच्ची- गुरुपवनपुरमन्दिरे दर्शनं विधातुं प्रधानमन्त्री नरेन्द्रमोदीवर्यः कोच्चीनगरं प्राप्तः। शुक्रवासरे रात्रौ सार्धैकादशवादने व्योवसेनाविमानपत्तनं प्राप्तं प्रधानमन्त्रिणं मुख्यसचिवः टोम् जोस्, आरक्षिजलाध्यक्षः लोकनाथ बह्रा, कोच्ची महानगराझ्यक्षा सौमिनी जेयिन्, एरणाकुलं मण्डलाध्यक्षः मुहम्मद् वै सफीरुल्ला प्रभृतयः त्रिंशदधिकाः जनाः प्रत्युज्जग्मुः

     रथ्यासञ्चारेण एरणाकुलम् अतिथिमन्दिरं प्राप्तः मोदीवर्यः शनिवीसरे प्रातः 8.45 वादने  गुरुपवनपुरं प्रस्थास्यति। गुरुवायूर् श्रीकृष्णकलालयस्थे क्रीडाङ्गणे 9.45 वादने उदग्रयानद्वारा प्राप्य स 10 वादने देवस्थानस्य श्रीवत्सं अतिथिमन्दिरे विश्रमानन्तरं मन्दिरदर्शनं विधास्यति। अनन्तरं तत्र कलाशालाक्रीडाङ्रणे आयोज्यमाने सामान्याधिवेशने भागं गृहीष्यति। मध्याह्नानन्तरं दिल्लिं प्रति प्रस्थास्यति च। प्रथानमन्त्रिणः सन्दर्शनमभिलक्ष्य कोच्यां गुरुवायुपुरे च अतिशक्ता शुरक्षा आयोजिता।

Leave a Reply

Your email address will not be published. Required fields are marked *